________________
भीजैनकुमारसम्भवाख्यं महाव्यम् टीफासमलंकृतम् ॥ सर्गः ९ (२७९
मेवश्च तस्य प्रभातसत्क्रमेघस्य गर्जिः गर्जारवः तस्या गर्जेस्तुल्यं गर्जिवत् मोघतादोपपदं मोवस्य भावो मोघता निष्फलता सैव दोप निष्फलता दोषस्तस्य पदं स्थानं न वदन्ति । कोऽर्थः यथा प्रभातसत्क मेघगर्जितं निष्फलं नैव स्यात् तथा सोऽपि स्वप्न सफल एवं स्यात् ॥ ६ ॥
त्वमा द्विनिवीसभाञ्जनं, सभाजनं सिश्चसि मे वचोऽमृतेः । सभाजनं यत्तव तन्वते सुरा, विभासि तत्पुण्यविलासभाजनम् ॥७॥
(= या० ) त्वमिति । हे प्रिये त्वं वचोमृतै वचांसि वचनान्येव अमृतानि तैः मे मम सभाजनं सभाया जनस्तं सभासत्कलोकं सिञ्चसि । किंलक्षणं सभाजनं आदृतद्विनिविरीसभाजनं आहतं द्विषां वैरिणां निविरीसायाः ( विडविरीसौ नीरन्प्रे च ७-१-१२९ इ. सू. ने नरन्द्रेऽर्थे विरीस प्रत्ययः । ) निबिडायाः भाया प्रभाया अञ्जनं क्षेपणं येन तं आहतद्विड्० । सुरा देवास्तव यत् सभाजन मापृच्छनं तन्वते कुर्वते तत् तस्मात्कारणात् पुण्यविलासभाजनं पुण्यस्य विलासरतस्य भाजनं पात्रं त्वं विभासि शोभसे ॥ ७ ॥
कुलं कलङ्केन न जातु पङ्किलं न दुष्कृतस्याभिमुखी च शेमुषी । गिरः शरच्चन्द्रकरानुकारिका, गतं सतंद्रीकृत हंसवल्लभम् ॥ ८ ॥ निरर्गलं मङ्गलमङ्गसौष्ठवं वदावदीभूत विचक्षणा गुणाः । इदं समयं सुकृतैः पुराकृतै, ध्रुवं कृतज्ञे तव ढौकनीकृतम् ||९|| युग्मम्
( व्या० ) कुलमिति । हे कृतज्ञे कृतं जानातीति कृतज्ञा तस्याः संबोधने हे कृतज्ञे ध्रुवं निश्चितं तव पुराकृतैः पूर्वभवकृतैः सुकृतैः शोभनानि कृतानि तैः पुण्यै . इदं समयं ढौकनीकृतं न ढौकनं अढौकनं अढौकनं ढौकनं कृतमिति ढौकनीकृतमुपदीक्रियते स्म । इदं किमिति तवकुलं कलङ्केन जातु कदाचिदपि न पलिं ( श्रीार्थ तुदादेरिलश्च ७ - २ ९ इ. सू मत्वर्थे पङ्कशब्दात् इल प्रत्यय 1 ) न कलुषं वर्तते । च अन्यत् तव शेमुषी बुद्धि दुष्कृतस्य दुष्ट कृतं दुष्कृतं तस्य पापस्य अभिमुखी संमुखी न स्यात् । तव गिरो वाण्य' शरच्चन्द्रकरानुकारिकाः शरदः चन्द्रस्तस्य करास्तान् अनुकुर्वन्तीति शारद चन्द्रकिरणानुकारिण्यो वर्तन्ते ।