________________
२७८) श्रीजैनकुमारसम्भवाल्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्ग:९
यस्य सः असंवृतचित्तो नरो मनुष्य: आलयगोऽपि आलयं गच्छतीति आलयगः गृहे स्थितोऽपि सन् अनुभूतदृष्टश्रुतचिन्तितार्थतः अनुभूतश्च दृष्टश्च श्रुतश्च चिन्तितश्च अनुभूतदृष्टश्रुतचिन्तिताः ते च ते अर्थाश्च तेभ्य इति निशि रात्रौ यं स्वानं निभालयति पश्यति । सोऽपि स्वप्न फलिन ( फलबह चेन. । ७-२-१३ । इ. सू. मत्वर्थे फलशब्दात् इन प्रत्यय 1) फलमस्यास्तीति फलिनः तस्य पक्ति न पश्यति ॥ ३ ॥ नरस्य निद्रावधिवीक्षणोत्सवं, तनोति यस्तस्य फलं किमुच्यते । विमुच्यते सोऽपि विचारतःपृथ-ग्गतः प्रथां यो मलमूत्रबाधया ॥४॥
(व्या०) नरस्येति । यः स्वप्न: नरस्य मनुष्यस्य निद्रावधिवीक्षणोत्सवं दर्शनस्योत्सवं तनोतिं करोति । तस्य स्वप्नस्य फलं किमुच्यते किं कथ्यते न किमपीति । य. स्वप्न: मलमूत्रबाधया मलश्च भूत्रंच मलमूत्रे तयोधिया पीडया प्रथां विस्तारं गतः सोऽपि स्वप्न: विचारतः विचारात् पृथग् विमुच्यते विचारात् अन्यत्र , कियते अर्थात् तादृशानां स्वप्नानां फलं नास्तीत्यर्थः ॥ ४ ॥ मनाक् समुत्पाद्य शोनिमीलनं, सुख निषण्णे शयितेऽथवा नरे । प्रवति यत्स्वमभिषेण देवता, वितायते तस्य विचारणा बुधैः ॥ ५ ॥
(व्या०) मनागिति । हे प्रिये नरे मनुष्य सुख निषण्णे सुखेन उपविष्टे सति अथवा शयिते दृशोलोचनयोर्मनाक स्तोकतर निमीलनं समुत्पाद्य स्वप्नमिपेण देवता यत् प्रवक्ति । वुधैर्विद्भिस्तस्य विचारणा चिन्तनं वितायते (तन: क्ये ४-२-६३ । इ. सू. क्ये परे तन् धातो. आवं वा ।) क्रियते ॥ ५ ॥ अधर्मधर्माधिकतानिवन्धनं, यमीक्षते स्वममपुष्कलं जनः । वदन्ति वैभातिकमेघगर्जिव-न्न मोघतादोषपदं तमुत्तमाः ॥६॥
(व्या०) अधर्म इति । हे प्रिये जनो लोकः अपुष्कलं न पुष्कलं अपुकलं तत् स्तोकं अवर्मधर्माधिकतानिबन्धनं अधर्मश्च धर्मश्च अधर्मधर्मी तयोरधिकता आधिक्यं सैव निबन्धनं कारण यस्य त एवविध यं स्वप्नं ईक्षते पश्यति । उत्तमाः सत्पुरुपास्तं स्वप्नं वैभातिकमेवानिवत् विभाते प्रभाते भवो वैभातिक स चासो