________________
श्रीजनामारसम्भवाल्य महाव्यम् टीकासमलंकृतम् ॥ सर्ग.९ (२७७
॥ अथ नवमः सर्गः प्रारभ्यते ॥
तदा तदास्येन्दुसमुल्लसद्वचः-सुधारसस्वादनसादरश्रुतिः। गिरा गभीरस्फुटवर्णया जग-त्रयस्य भी जगदे सुमङ्गला ॥१॥
(व्या०) तदेति। तदा तस्मिन्नवसरे जगत्रयस्य जगतां त्रयं तस्य भर्ना श्रीयुगादीश्वरेण सुमङ्गला गिरा पाण्या जगदे जालिता। किलक्षणया गिरा गभीरस्फुस्वर्णया गभीराश्च स्फुटाश्च प्रकटा वर्णा अक्षराणि यस्यां सा तया प्रकटाक्षरया । किंविशिष्टा सुमङ्गला तदास्येन्दुसमुल्लसचसुधारसस्वादनसादरश्रुतिः तस्य भगवतः आस्थं मुखमेव इन्दुश्चन्द्र तस्मात् समुल्लसत् निर्गच्छत् वचः वचनमेव सुधाया-अमृतस्य रसः तस्य आस्वादस्तस्मिन् सादरे आदरसहित श्रुतो कर्णी यस्याः सा ॥ १ ॥ जुडजडिमा जडभक्ष्यभोजना-दनाश्तस्थानशयेन जन्तुना । विलोक्यते यो विकलप्रचारवद्-विचारणं स्वामभरो न सोऽहति ॥२॥ __(व्या०) जडेति । हे सुमङ्गले जुज्जडिना जडस्य भावो जडिमा (वर्ण६ढादिभ्यष्टयण च वा ७-१-५९ इ. सू. जडशब्दात् भावे इमन् प्रत्ययः ।) जुडंश्चासौ जडिमा च तेन मिलनाडयेन । जडभक्ष्यभोजनात् जडं च तत् भदयं च.जडभन्यं तस्य भोजनात शोतलाहारभोजनात् । अनावृतस्थानशयेन न आवृतमनावृतं अनाच्छादितं अनावृतं च तत् स्थानं च तस्मिन् गेते इति अनावृत्तस्थानशयस्तेन एवंविधजंतुना मानवेन य. स्वप्नभर• स्वप्नानां भरः विलोक्यते दृश्यते । स वनभरः स्वप्नसमूहो विकलप्रचारवत् विकलस्य प्रथिलस्य प्रचारोगमन विकलप्रचार स इव विकलप्रचारवत् ग्रथिलामनवत् विचारणं नार्हति विचार कर्तुं योग्यो न स्यात् ॥ २ ॥ निभालय त्यालयगोऽपि यं प्रिये-ऽनुभूतदृष्टश्रुतचिन्तितार्थतः । नरो निशि स्वप्नमबद्धमानसो, न सोऽपि पंक्ति फलिनस पश्यति॥३॥
(व्या०) निभालयतीति । हे प्रिये अबदमानस न बद्ध अबद्धं मानसं