________________
३०२) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः९
(व्या०) प्रचेतसा इति । हे प्रिये वारिधिः (व्याप्यादाधारे । ५-३८८ । इ. सू. वारिपूर्वकधाधातोः किः । इडेत्पुसीति सू. आलोपः । वारीणि धीयन्ते अस्मिन् इति वारिधिः । ) समुद्रः अस्य तव पुत्रस्य पुरतः अग्रे इति अमुना प्रकारेण स्ववीचिबनित स्वस्य वीचीनां ध्वनितानि तैः स्व+ल्लोलशब्दितः स्तुवन् इव स्तवीति इति स्तुवन् किमाविरासीत प्रकटीबभूव । इतीति किं स्फुटपाशपाणिना स्फुटः पाशः पाणौ यस्य सः तेन प्रकट पाशहस्तेन प्रचेतसापि वरुणेनापि । कृपाणिना कृपाणोऽस्यास्तीति तेन खड्गयुक्तेन मध्यशयेन (आधारात् । ५-१-१३७ । इ. सू मध्ये इति आधारपूर्वक शोधातो. अप्रत्ययः । डस्युक्त कृता । ३-१-४९ । इ. मू. नित्यतत्पुरुष ।) मध्ये शेते इति मध्यशयस्तेन मध्यवर्तिना जिष्णुना (भूजे प्णुक । ५-२-३० । इ सू शीलादिसदर्थे जिधातोः प्णुक् प्रत्ययः कित्त्वात् न गुण । जयति इत्येवंशोल. जिष्णुः।) नारायणेन किल इति सत्ये राजनीतेः राज्ञां । नीतिस्तस्या. कूलमुद्रुज' कूलमुद्रुजतीति कुलमुद्रुजः (कूलादुद्रुजोद्वहः । ५-१-१२२ । इ सू कुलकर्मपूर्वकउद्रुजूवातो. खश् प्रत्ययः । खित्यनव्ययाऽरुषोर्मोऽन्तो हम्बश्च । ३-२-१११ । इ. सू. मोऽन्त ।) कूलंकष मात्स्यः समय' मत्स्ये गिलगिलन्यायो मयि भवतीति भवन् सन् न न्यवारि न वारित । इदं धरायास्तलं पृथ्वीतलं धन्यम । यत् यस्मात्कारणात् त्वयि प्रभौ सति व्यत्ययस्य दोषो व्यत्ययदोषरतं न्यायविपरीतत्वदोषं न आप्स्यति न प्राप्स्यति ॥ ६३ ॥ ६४ ॥ युग्मम् । प्रिये विमानेन गतेन गोचरं, समीयुषा भोगसमं समुच्छ्यम् । उदारवृन्दारकवल्लभश्रिया, भवद्भुवा भाव्यमदभ्रवेदिना ।। ६५ ॥
(व्या०) प्रिये इति । हे प्रिय विमानेन गोचरं गतेन पृष्टेन सता भवभुवा भवत्या. भुवा तव पुत्रेण विमानसदृशेन भाव्यम् । किं विशिष्टेन तव पुत्रेण विमानेन च भोगसमं भोगस्य सम भोगसदृशं पक्षे आभोगसम आभोगस्य विस्तारम्य समं सदृशं समुच्छ्रयं वृद्धिं समोयुषा रामीयाय इति समीयिवान् तेन प्रासेन । पुन' उदारवृन्दारकवल्लभश्रिया उदारा दातारस्तेपु वृन्दारका देवम। - तेषां पमा श्री शोभायस्य स. पक्षे उदारा प्रोढा ये वृन्दारका (वृन्दादारका । ७