________________
भीजैनकुमारसम्भवास्यं महाव्यम् टीकासमलंतम् ॥ सर्ग: ९ (३०३ २-११ । इ. सू. मत्वर्थे वृन्दशब्दात् आरक प्रत्ययः । प्रशस्तं वृन्दमस्ति एषामिति वृन्दारकाः) देवास्तेषां वलमा श्रीलक्ष्मीर्यस्य सः तेन पुनः अदम्रदिना अददंबहुवेत्तीति अद्भवेदी तेन अदभ्रवेदिना पक्षे अदभ्रा वेदिवलभी यस्य स तेन ।। ६५ ॥ पुराश्रितमा परिहत्य यन्महीं, पुनासि पड्केरुहतापदैः पदैः । किमत्र हेतुर्मयि दोषसंभवो, विरागता वा चिरसंस्तपोद्भवा ।। ६६ ॥ नवीनपुण्यानुपल मतोऽय चे-विरक्तिरश्चिष्यसि तत्कथं शिवम् । प्रसीद मामेशथवोपयुज्यते, चट्टक्तिरस्नेहरसे न सेतुवत् ।। ६७ ॥ यदि त्वयात्यज्यत हन्त ताविषो, विपोपमः सोऽस्तु न तन्ममापि किम्। किमियमुष्यानुपदीनमागतं, सुधाशिधामानुनयाय तन्धि वा ॥ ६८ ॥
त्रिभिविशेषकम् । (व्या०) पुराइति । हे तन्त्रि वा अथवा सुवाशिधाम सुधाममृतमश्नन्ति इति सुधाशिनो देवास्तेषां धाम अमरविमानं किं इति अमुना प्रकारेण अमुष्य तब पुत्रस्य अनुनयाय स्नेहकरणाय अनुपदीन पृष्ठलग्नमागतम् । इतीति किं हे स्वामिन् त्वं पुराश्रितं मां परिहत्य त्यक्पा यत् पङ्केरहतापदैः पङ्के रोहन्तीति पड्केरुहाणि ( अद्वयञ्जनात् सप्तम्या बहुलम् । ३-२-१८ । इ सू. सप्तम्या लुप् न ) कमलानि तेषां तापं संतापं ददतीति पड़केरुहतापदास्तैः पदैश्चरणेः महीं पृथ्वी पुनासि पवित्रीकरोषि । अत्र मयि विषये दोषसंभवः दोषाणां संभवः किं हेतुः । वा अथवा चिरसंस्तवोद्भवा चिरं संस्तवात् उद्धव उत्पत्तिर्यस्याः सा चिरकालीनपरिचयोत्पन्ना विरागता विरागस्य भावों वैराग्यं वर्तते । अथ चेत् यदि नवीनपुण्यानुपलभत. नवीनं (नवादीनतननं च न चास्य । ७२-१६० । इ. सू स्वार्थ नवशब्दात् ईनप्रत्ययः ।) च तत् पुण्यं च नवीनपुण्यं तस्य अनुपलंभात् अप्राप्तेविरक्तिवर्तते । तत् शिवं मोक्षं कथमश्चिष्यसि यास्यसि । प्रमोद प्रसाद कुरु मां एहि । अथवा अस्नेहरसे स्नेहस्य रसः स्नेहरस न विद्यते स्नेहरसो यस्मिन् स अस्नेहरसस्तस्मिन् पुरुषे चटूक्तिश्चाटुवचन