Book Title: Jain Kumar Sambhavakhyam
Author(s): Jayshekharsuri
Publisher: Acharyarakshit Pustakoddhar Sanstha

View full book text
Previous | Next

Page 330
________________ ३०८) श्री जैन कुमारसम्भवाथ्य महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ९ धरति स्म । किंकर्तुं निजमुखभित्र पद्ममातु` निजमुखस्य मित्रं यत् पद्म कमलं. तस्य माता जननी पद्मिनी तस्याः इह जगति किंसकंटकत्वदोषं कंटकै सह वर्तते इति सकंटका तस्या भाव' सकंटकत्वं तदेव दोषस्तं न्यक्कर्तु निराकर्तुम् ॥७८॥ तामेकतोऽमृतमयीमभितश्चकार, स्वार्थसम्यगुपलब्धिभवः प्रमोदः । चक्रेऽन्यतश्च दवदाहमयीं विषादः, प्राणेशितुर्वचनपानविरामजन्मा ॥ ७९ ॥ ( व्या० ) तामिति । स्वनार्थसम्यगुपलब्धिभवः (स्वप्नानामर्थस्य सम्यकः उपलब्धिः प्राप्तिः तस्या भवः उत्पन्न' प्रमोदो हर्षः तां सुमङ्गलां ( सर्वोभयाभिपरिणा तसा । २-२ - ३ । इ. सू. अभितोयोगे द्वितीया ) अभितः समन्ततः एकतः अमृतमय चकारः । अन्यतश्च प्राणेशितुः प्राणानामीशिता स्वामी तस्य श्री ऋषभदेवस्य वचनपानविरामजन्मा वचनरूपामृतस्यपानं तस्य विरामो निवर्तनं तस्मात् जन्म उत्पत्तिर्यस्य सः विषाद दवदाहमय दवस्य वनाग्नेर्दाहरतन्मय चक्रे ।। ७९ ।। नहि बहिरकरिष्यद्वक्ष सोऽस्याः स्तनाख्यं, यदि तरुणिमशिल्पी मंडपद्वन्द्वमुचैः । तदिह कथममास्यल्लास्यलीलां दधानं, प्रभुवचनसुताप्तिस्फीतमानन्दयुग्मम् ॥ ८० ॥ सूरिः श्रीजयशेखरः कविघटाकोटीरहीरच्छविधम्मिल्लादिमहाकवित्वकलना कल्लोलिनी सानुमान् । वाणीदत्तवरश्चिरं विजयते तेन स्वयं निर्मिते, सर्गों जैनकुमारसंभवमहाकाव्ये गतस्तस्वभाक् ॥ ८१ ॥ ( व्या०) नहि इति । तरुणिमशिल्पी तरुणस्य भावस्तरुणिमा तरुणिमा एवं शिल्पी यौवनरूपविज्ञानी अस्याः सुमङ्गलायाः स्तनाख्यं स्तन इति आख्या यस्य तत् मंडपद्वन्द्वं मंडपयोर्द्वन्द्वं युगलं तत् उच्चैरत्यर्थं यदि वक्षसो हृदयात्

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397