Book Title: Jain Kumar Sambhavakhyam
Author(s): Jayshekharsuri
Publisher: Acharyarakshit Pustakoddhar Sanstha

View full book text
Previous | Next

Page 329
________________ श्रीजैनकुमारसम्भवाख्य महापाव्यम् टीकासमलंकृतम् ॥ सर्गः ९ (३०७ पलीकतादूषणमुत्तमे न मे, मुखप्रियत्वेन गिरोऽधिरोप्यताम् । सुवर्णनाम्ना हि समर्पिता रिरी-भवेत्स्वरूपाधिगमेऽधिकार्तये ॥७६॥ (०या०) व्यलोकता इति । हे उत्तमे त्वं मे मम गिरो वाण्याः मुखप्रियत्वेन मुखस्य प्रियत्वं तेन व्यलीकतादूपणं ०यलीकस्य भावो व्यलोकता असत्यता सा एव दूषण न अधिरोप्यतां मा स्थाप्यताम् । रिरीपित्तलं हि निश्चित सुवर्णनाम्ना सुवर्णस्य नाम तेन समर्पिता स्वरूपाधिगमे स्वरूपस्य अधिगमोजानं तस्मिन् स्वरूपे ज्ञाते सति अधिका चासौ आर्तिश्च पीडा तस्यै अधिकपीडायै भवेत् ॥ इदं वदन्तं भगवन्तमन्तग-लयं नमःस्था ऋभवो भवन्मुदः । सुमेरसिञ्चन् जय संशयक्षया-मयागदंकारवरेति वादिनः ॥ ७७ ॥ (व्या०) इदमिति ॥ नभः स्था नभसि आकाशे तिष्ठन्तीति आकाशस्था ऋभवोदेवाः भवन्मुद भवन्ती मुद् येषां ते जायमान हर्षाः सन्तः अन्तरालयं ( पारे मध्येऽग्रेऽन्त पष्ठया वा। ३-१-३० । इ. सू. अव्ययीभावसमासः ) आलयस्य अन्तरापासस्य अन्तर्मध्ये इदं वदन्तं भगवन्तं सुभैः कुसुमैरसिञ्चन् । किंलक्षणा ऋभवः हे संशयक्षयामयागर्दकारवर संशय संदेहः स एव क्षयनामा आमयः रोगः अगदं करोतीति अगदकारोवैधः (कर्मणोऽण् । ५ । १।७२ । इ. सू. अगदकर्मपूर्वक कृधातो. अण् । नामिनोऽकलिहले: । ४ । ३ । ५१ । इ. सू. अणिपरे कृधातो. *कारस्य वृद्धि. । डयुक्तं कृता ! ३ । १ । १९ । इ. सू. तत्पुरुष समासः । सत्यागदास्तो कारे । ३ । २ । ११२ । इ. सू. कारशब्दे उत्तरपदे अगदशब्दस्य मोऽन्तः ।) तेषु वरः उत्तमस्तस्य संबोधन संशयक्षयामयस्य अगदकारवर हे राजवैद्य त्वं जय इति वादिनः इति वदन्तीति ।। श्रुत्वेदं दयितवचः प्रभोदपूर्या, दधे सा समुदितकंटकं वपुः स्वम् । पभिन्या निजमुखमित्रपद्ममातु-न्यकर्तु किमिह सकंटकत्वदोषम् ॥७८॥ (व्या०) श्रुत्वेति । सा सुमङ्गला इदं दयितवचः दयितस्य वचस्तत् श्रीषभदेववचनं श्रुत्वा प्रमोदपूर्या प्रमोदस्य पूर्तिस्तया हर्षपूरेण स्वं वपुः आत्मीयं शरीरं समुदितकंटक समुदिताः कंटका यस्य तत् उद्गतरोमाञ्चं दधे

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397