Book Title: Jain Kumar Sambhavakhyam
Author(s): Jayshekharsuri
Publisher: Acharyarakshit Pustakoddhar Sanstha

View full book text
Previous | Next

Page 327
________________ भोजनमारसम्भवाख्यं महाकाव्यम् टीकासमलकृतम् ॥ सर्गः ९ (३०५ कर्कशतागुरौ कर्कशस्य भाव कर्कशता काठिन्यं तया गुरौ गरीयसि गिरौ रोहणाचले वा अथवा अनुपकारिवारिणि उपकरोतोति उपकारि न उपकारि अनुपकारि अनुपकारि वारि यस्य स अनुपकारिवारिस्तस्मिन् सागरे उपकाररहितजले समुद्रे निर्मलधामयोग्यता निर्मलं च तत् धाम च स्थानकं तस्य योग्यता तां निर्मलस्थानकयोग्यतां न गत न प्राप्त । तु पुनः शुचौ पवित्रे तव धाम्नि स्थिति समीहे । हे स्पानिन् परार्थवैयर्थ्यमलीमसं परार्थस्य परोपकारस्य वैयर्थेन निरथकत्वेन मलीमसं ( मलादीमसश्च । ७-२-१४ । इ. सू. मलशब्दात् मत्वर्थे ईमसप्रत्ययः मलोऽस्ति अस्येति मलीमसम् । ) मलिनं मे जनुः मदीयं जन्म संततदानवारिणा सन्ततं निरन्तरं दानव पारि जलं तेन पुनीहि पवित्रं कुरु ॥ ७०-७१ ॥ युग्मम् । स्फुरन्महाः प्राज्यरसोपभोगतो, गतो न जाइयं धुतिहेतु हेतिभृव । तव ज्वलह्निविलोकनात्सुतो, द्विषः पतङ्गानिव धक्ष्यति क्षणात् ७२ (व्या०) स्फुरनिति । हे प्रिये तव सुत' पुत्र' ज्वल निविलोकनात्ज्वलंश्चासौ वह्निश्च तम्य विलोकन तस्मात् निधूमवैश्वानरदर्शनात् द्विषः शत्रन् पतङ्गानिव क्षणात् धक्ष्यति भस्मीकरिष्यति । किंविशिष्टः तव सुतो वह्निश्च प्राज्यरसोपभोगतः प्राज्या प्रभूता चासौ रसा च पृथ्वी पक्षे प्रकृष्ट' आज्यस्य घृतस्य रसः तस्या च तस्य उपभोगतः उपभोगात् स्फुरन्महा स्फुरत् महो यस्य स प्रसरत्तेजाः । पुन. जाडयं जडवं मूर्खत्वं शीतत्वं न गत । द्युतिहेतुहेतिभृत् चुते. कान्तेर्हेतवो या हेतयः ( सातिहेतियूतिजूतिज्ञप्तिकीर्तिः । ५-३-९४ । इ. सू. हेतिशब्दो निपात्यते । ) शस्त्राणि ज्वाला वा ता विभर्ति घरतीति ।। ७२ ॥ प्रभो न मां कोऽप्युपलक्षयिष्यति, क्षितौ चिरागोचरमागतोऽस्मि यत् । मनुष्व मूर्ति मम तैजसीमिमां, महानसि स्थापय तन्महानसे ॥७३॥ जने जिघत्सौ यदतीव जीवनं, मयैव तद्भक्ष्यमुपस्करिष्यते । इति स्वरूपं किममुष्य भाषितुं, भुवि प्रवेक्ष्यन्ननलोऽस्फुरत्पुरः ॥७४॥

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397