________________
भोजनमारसम्भवाख्यं महाकाव्यम् टीकासमलकृतम् ॥ सर्गः ९ (३०५
कर्कशतागुरौ कर्कशस्य भाव कर्कशता काठिन्यं तया गुरौ गरीयसि गिरौ रोहणाचले वा अथवा अनुपकारिवारिणि उपकरोतोति उपकारि न उपकारि अनुपकारि अनुपकारि वारि यस्य स अनुपकारिवारिस्तस्मिन् सागरे उपकाररहितजले समुद्रे निर्मलधामयोग्यता निर्मलं च तत् धाम च स्थानकं तस्य योग्यता तां निर्मलस्थानकयोग्यतां न गत न प्राप्त । तु पुनः शुचौ पवित्रे तव धाम्नि स्थिति समीहे । हे स्पानिन् परार्थवैयर्थ्यमलीमसं परार्थस्य परोपकारस्य वैयर्थेन निरथकत्वेन मलीमसं ( मलादीमसश्च । ७-२-१४ । इ. सू. मलशब्दात् मत्वर्थे ईमसप्रत्ययः मलोऽस्ति अस्येति मलीमसम् । ) मलिनं मे जनुः मदीयं जन्म संततदानवारिणा सन्ततं निरन्तरं दानव पारि जलं तेन पुनीहि पवित्रं कुरु ॥ ७०-७१ ॥ युग्मम् । स्फुरन्महाः प्राज्यरसोपभोगतो, गतो न जाइयं धुतिहेतु हेतिभृव । तव ज्वलह्निविलोकनात्सुतो, द्विषः पतङ्गानिव धक्ष्यति क्षणात् ७२
(व्या०) स्फुरनिति । हे प्रिये तव सुत' पुत्र' ज्वल निविलोकनात्ज्वलंश्चासौ वह्निश्च तम्य विलोकन तस्मात् निधूमवैश्वानरदर्शनात् द्विषः शत्रन् पतङ्गानिव क्षणात् धक्ष्यति भस्मीकरिष्यति । किंविशिष्टः तव सुतो वह्निश्च प्राज्यरसोपभोगतः प्राज्या प्रभूता चासौ रसा च पृथ्वी पक्षे प्रकृष्ट' आज्यस्य घृतस्य रसः तस्या च तस्य उपभोगतः उपभोगात् स्फुरन्महा स्फुरत् महो यस्य स प्रसरत्तेजाः । पुन. जाडयं जडवं मूर्खत्वं शीतत्वं न गत । द्युतिहेतुहेतिभृत् चुते. कान्तेर्हेतवो या हेतयः ( सातिहेतियूतिजूतिज्ञप्तिकीर्तिः । ५-३-९४ । इ. सू. हेतिशब्दो निपात्यते । ) शस्त्राणि ज्वाला वा ता विभर्ति घरतीति ।। ७२ ॥ प्रभो न मां कोऽप्युपलक्षयिष्यति, क्षितौ चिरागोचरमागतोऽस्मि यत् । मनुष्व मूर्ति मम तैजसीमिमां, महानसि स्थापय तन्महानसे ॥७३॥ जने जिघत्सौ यदतीव जीवनं, मयैव तद्भक्ष्यमुपस्करिष्यते । इति स्वरूपं किममुष्य भाषितुं, भुवि प्रवेक्ष्यन्ननलोऽस्फुरत्पुरः ॥७४॥