________________
રૂ૦૬) શ્રીનિમારમવાર્થ મહાશાવ્યમ્ દીશામર્દનમ ૧
(व्या०) प्रभो इति । अनलो वैश्वानरः अमुष्य तव पुत्रस्य किं इति भाषितुं भुवि पृथिव्यां प्रवेक्ष्यन् प्रवेष्टुकामः सन् पुरोऽग्रेऽस्फुरत् । इतीति कि हे प्रभो क्षितौ पृथिव्यां मां कोऽपि न उपलक्षयिष्यति । यत् अहं चिरात् बहुकालेन गोचरं (गोचरसंचरवहनजव्यजखलापणनिगमबकभगकषाकषनिकषम्। ५-३-१३१ । इ. सू. गोचरशब्दः पुंसि धान्तोनिपातः 1) दृष्टिमार्गमागतोऽस्मि । मम इमां, तैजसी मूर्ति मनुष्य जानीहि । त्वं महान् असि । तत् तस्मा. कारणात् मां महानसे (महत् च तत् अनश्च महानसं । सन्महत्परमोत्तमोत्कृष्टं पूजायाम् । ३-१-१०७ । इ. सू. कर्मधारयसमास: । जातीयैकार्थेऽच्चे । ३-२-७० । इ. सू. अनस् उत्तरपदे महतो डाः । डित्वात् अन्त्यस्वरादिलोपः । सरोऽनोऽश्माऽसो जातिनानोः । ७-३-११५ । इ. सू. महतशप्दपूर्वकअनसन्तात् तत्पुरुषाद । ) पाकस्थाने स्थापय । जिघत्सौ ( तुमर्हादि
छायां सन्नतत्सनः । ३-४-२१ । इ. सू. अद्धातोऽरिच्छाथै सन् । पलसनद्यतनीधचलि। ४-४-१७। इ. सू. सनि परे अदो धस्ट आदेश । सन् भिक्षासंशेरुः। ५-२-३३ । इ. सू. निधत्स् इति सनन्तात् उ । ) अत्तुमिच्छति इति जिधत्सति निघत्सति इति जिघत्सुस्तस्मिन् बुभुक्षिते जने लोके यद् भक्ष्यं अतीव जीवनं वर्तते । तद् भक्ष्यं मयैव उपस्करिष्यते ॥७३-७४॥ सुदुर्वचं शास्त्रविदामिदं मया, फलं स्वसंवित्तिबलादलापि ते । दुरासदं यद्यवसायसोष्मणां, सुखं तदाकर्षणमांत्रिकोऽश्नुते ॥७५॥
(व्या०) सुदुचमिति । हे प्रिये इदं स्वप्नफलं भया ते तव स्वसंवितिबलात स्वस्य संवित्तिनि तस्या बलात् स्वीयजानबलात् अलापि प्रोक्तम् । किंलक्षणं स्वप्नफलं शास्त्राणि विदन्तीति शास्त्रविदस्तेषां सुदुर्वचं सुष्टु अत्यर्थ दुर्वच वक्तुमशक्यम् । व्यवसायसोष्मणां व्यवसायेन ऊष्मा सह वर्तन्ते सोप्माण सगस्तेिपां यद् वस्तु दुरासदं दुखेन आसयते इति दुष्प्रापं वर्तते । तस्तु आकर्षणमान्त्रिकः आकर्षणस्य मंत्र जानाति इति आकृष्टिमंत्रज्ञः सुखं अश्नुते प्राप्नोति ॥ ७५ ॥