________________
श्रीजैनकुमारसम्भवाख्य महापाव्यम् टीकासमलंकृतम् ॥ सर्गः ९ (३०७ पलीकतादूषणमुत्तमे न मे, मुखप्रियत्वेन गिरोऽधिरोप्यताम् । सुवर्णनाम्ना हि समर्पिता रिरी-भवेत्स्वरूपाधिगमेऽधिकार्तये ॥७६॥
(०या०) व्यलोकता इति । हे उत्तमे त्वं मे मम गिरो वाण्याः मुखप्रियत्वेन मुखस्य प्रियत्वं तेन व्यलीकतादूपणं ०यलीकस्य भावो व्यलोकता असत्यता सा एव दूषण न अधिरोप्यतां मा स्थाप्यताम् । रिरीपित्तलं हि निश्चित सुवर्णनाम्ना सुवर्णस्य नाम तेन समर्पिता स्वरूपाधिगमे स्वरूपस्य अधिगमोजानं तस्मिन् स्वरूपे ज्ञाते सति अधिका चासौ आर्तिश्च पीडा तस्यै अधिकपीडायै भवेत् ॥ इदं वदन्तं भगवन्तमन्तग-लयं नमःस्था ऋभवो भवन्मुदः । सुमेरसिञ्चन् जय संशयक्षया-मयागदंकारवरेति वादिनः ॥ ७७ ॥
(व्या०) इदमिति ॥ नभः स्था नभसि आकाशे तिष्ठन्तीति आकाशस्था ऋभवोदेवाः भवन्मुद भवन्ती मुद् येषां ते जायमान हर्षाः सन्तः अन्तरालयं ( पारे मध्येऽग्रेऽन्त पष्ठया वा। ३-१-३० । इ. सू. अव्ययीभावसमासः ) आलयस्य अन्तरापासस्य अन्तर्मध्ये इदं वदन्तं भगवन्तं सुभैः कुसुमैरसिञ्चन् । किंलक्षणा ऋभवः हे संशयक्षयामयागर्दकारवर संशय संदेहः स एव क्षयनामा आमयः रोगः अगदं करोतीति अगदकारोवैधः (कर्मणोऽण् । ५ । १।७२ । इ. सू. अगदकर्मपूर्वक कृधातो. अण् । नामिनोऽकलिहले: । ४ । ३ । ५१ । इ. सू. अणिपरे कृधातो. *कारस्य वृद्धि. । डयुक्तं कृता ! ३ । १ । १९ । इ. सू. तत्पुरुष समासः । सत्यागदास्तो कारे । ३ । २ । ११२ । इ. सू. कारशब्दे उत्तरपदे अगदशब्दस्य मोऽन्तः ।) तेषु वरः उत्तमस्तस्य संबोधन संशयक्षयामयस्य अगदकारवर हे राजवैद्य त्वं जय इति वादिनः इति वदन्तीति ।। श्रुत्वेदं दयितवचः प्रभोदपूर्या, दधे सा समुदितकंटकं वपुः स्वम् । पभिन्या निजमुखमित्रपद्ममातु-न्यकर्तु किमिह सकंटकत्वदोषम् ॥७८॥
(व्या०) श्रुत्वेति । सा सुमङ्गला इदं दयितवचः दयितस्य वचस्तत् श्रीषभदेववचनं श्रुत्वा प्रमोदपूर्या प्रमोदस्य पूर्तिस्तया हर्षपूरेण स्वं वपुः आत्मीयं शरीरं समुदितकंटक समुदिताः कंटका यस्य तत् उद्गतरोमाञ्चं दधे