Book Title: Jain Dharmvar Stotra
Author(s): Bhavprabhsuri, Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 37
________________ १४ श्रीजैनधर्मवरस्तोत्रम् सञ्चय इति नाम्ना एकया घटिकया क्रोशशतं व्रजति । तत इतः स्थानानंष्ट्वा भवदीयस्थानं गम्यते । इत्युक्त्वा उत्तालतया सम्भ्रमेण सञ्चयदीर्घग्रीवं विमुच्य टाकं सज्जीकृत्य रत्नादिबहुमूल्यसूक्ष्मवस्तूनि गृहीला तमारुह्य तौ दम्पती पलायनं चक्राते । कञ्चुकिना तजनकाय ज्ञापितम् । राक्षसोऽपि सञ्चयं स्थितं विलोक्य हर्षितोऽस्याग्रे क यास्थतीति विचिन्त्य सद्य एनमारुह्य तन्मार्गमनुययौ । इतश्च कुमार्या पश्चादवलोकनेन दृष्टो जनक आगतो विभीतम् , भो भर्तः ! अमुं वटं शीघ्र समारोह । तेनापि तथैव कृतम् । ततो मतिमत्या कमलया प्रोक्तम्-भो तात ! अत्र एहि एहि । मया पलायमानः पुरुषः सादरं रुद्धोऽस्ति । (तत्) श्रुत्वा हृष्टोऽसौ वटाधस्तादागत्य सञ्चयक्रमेलकरज्जुं पुत्र्यै दत्वा वैश्रमणालयमारुरोह । राक्षसो यावदुत्पतन् हरेः शाखायां ग्रहणार्थमायाति, तावत् हरिरन्यशाखां याति । एवं तद्भीत्या शाखान्तरं गच्छन् यस्याः शाखाया अधः सञ्चयोऽस्ति तां शाखामधितिष्ठति । तदुपा(त्पा)तं च ऊर्ध्वदृष्ट्या विलोकयति हरिः। तदा कुमार्या प्रोक्तम्-भो जीवितेश ! मूढ इव किं विलोकयसि ? अधुना टाकसञ्चयौ मिलितौ । आवयोः कार्यसिद्धिर्जाता । शाखात उत्प्लुत्य सञ्चयमारोह । तेनापि तथैव कृतम् । ततः स्थानात् ताभ्यां तावुष्ट्रौ वाहितौ । स्तोकमध्वानं गताभ्यां तावत् सुरभिप्रफुल्लपुष्पपल्लवादिसमृद्धं शतशः सहस्रांशुकिरणपुजैरिद्धमिव दीप्यमानं वनं ददृशे । ततोऽग्रे गच्छद्यामेकतो हस्तिन एकतो व्याघ्रा मृगाः शशकाः शूकरा जाहका अहयो नकुला मूषका मार्जाराः पक्षिण इत्याद्यनेकजीवाः सस्नेहं सादरं संमिलिता उपशान्ता गतवैरा दत्तकर्णास्तिष्ठन्तो दृष्टाः । तदनन्तरं चञ्चत्काञ्चनकमलाधिष्ठितः प्राप्तकेवलज्ञानः सुरासुरनरसेव्यमानः प्रधानधर्मोपदेशं ददानः सुसाधुर्दश्यते स । ततः प्राप्तचमत्कारौ तौ झटिति मैयाभ्यामवतीर्य सादरं तं नत्वोपविष्टौ । केवली धर्मोपदेशं दिदेश । यतः "छिन्नमूलो यथा वृक्षो, गतशीर्षो यथा भटः । धर्महीनो धनी तावत्, कियत्कालं प्रशस्यते ? ॥१॥-अनु० यस्य धर्मविहीनानि, दिनान्यायान्ति यान्ति च । स लोहकारभनेव, श्वसन्नपि न जीवति ॥ २॥-अनु० नाच्छादयति कौपिनं, न दंशमसकापहम् । शुनः पुच्छमिव व्यर्थ, पाण्डित्यं धर्मवर्जितम् ॥३॥"-अनु० पुनः पापण्डिभिः प्रकल्पिते धर्मे परमार्थतः शून्ये जगत्पतिस्तं वरीवृतीति । यथा वन्ध्यापुत्रो मरुमरीचिकाजलस्रोतगात्रो गगनारविन्द विनिर्मितमालाधरः शशकशृङ्गनिर्मापितधन्वाऽलङ्कतहस्तो याति । काव्यम् १ उष्ट्रम्. २ वटम्. ३ 'जाहको गात्रसङ्कोची' इति हैमः (का. १, श्लो०३६८), 'सेलो' इति लोके । ४ उष्ट्राभ्याम् Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200