Book Title: Jain Dharmvar Stotra
Author(s): Bhavprabhsuri, Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
१०४
श्रीजैनधर्मवरस्तोत्रम्
लितः, तस्य देशनां निशम्य प्रतिबुद्धः एको दीक्षां गृहीतवान्, इतरो न । तदा लोकैः प्रोक्तम्-कथं भगवन् ! एकमनस्कौ इमौ धर्मकार्येऽधुना भिन्नमनसौ जातौ ? । सर्वज्ञः प्राह - श्रूयतामेतयोः पूर्वभवम् - कस्याश्चिदटव्यां द्वौ किरातौ वसतः स्म । कदाचिद् कुतश्चित् गोधनमपहृत्य पृष्टलग्नावाहरकभयान्नष्टौ तौ प्रौढगिरिशिखरं गतौ । तत्रैको मुनिर्नासाग्रभागन्यस्तनेत्रयुग्मो ध्यानमग्नो योगसुखलनो दृष्टस्ताभ्याम् । तं दृष्ट्वा एकेन संस्तुतः - अहो ! अयं निर्भयो मुनिः सुखासीनो वर्तते । तदा स एको दर्शनरुचिर्जातः । अन्यस्य काष्ठवत् साधुं समीक्ष्य न श्रद्धा जाता । कालान्तरे तौ मृत्वा निगमाविमौ जातौ स्तः । तेन दर्शनरुचिर्निस्तीर्णः, इतरस्तु नेति कथानकम् । इति त्रयस्त्रिंशत्तमवृत्तार्थः ॥ ३३ ॥
अथ सङ्घमाश्रित्याह
सूत्रम् -
!
30 ड
सङ्घाधिपत्यतिलकं ननु ये वहन्तः साधर्मिके सततदत्तवराशना ये ।
व्याख्या - (सङ्घति ) । हे विभो ! ननु निश्चितं ये जन्मभाजो धनाढ्याः सङ्घाधिपत्यतिलकं वहन्तो - दधतो भवन्ति । ये पुनः साधर्मिके सततदत्तवराशना-सदा दत्तभोजनवात्सल्या भवन्ति भुवि - भूमौ ते जन्मभाजः - भव्या लघु- शीघ्रं मुक्तिं व्रजन्ति । कथंभूताः ते १ किं कुर्वन्तः सन्तः ! हे विभो ! तव पादद्वयं नितरां भृशं भजन्तः । यतः -
१
" अद्य मे फलवती पितुराशा, मातुराशिषि शिंखाङ्कुरिता यद् । यद्युगादिजिनयात्रिकलोकं, प्रीणयाम्यहमशेषमखिन्नः ॥ १ ॥ - स्वागता संसारेsसुमतां नरामरभवाः प्राप्ताः श्रियोऽनेकशः
कीर्तिः स्फूर्तिमदर्जितं च शतशः साम्राज्यमप्यूर्जितम् ।
Jain Education International
矮
मुक्तिं व्रजन्ति लघु ते नितरां भजन्तः पादद्वयं तव विभो ! भुवि जन्मभाजः ॥ ३४ ॥
१ 'शिवा' इति क-पाठः ।
२ स्वागता-लक्षणम् -
स्वाराज्यं बहुधा सुधाशनचयाराध्यं समासादितं
लेभे पुण्यमयं कदाचिदपि नः सङ्घाधिपत्यं पुनः ॥ २ ॥ - शार्दूल०
"स्वागता रनभगैर्गुरुणा चा"
३ स्वर्गराज्यम् । ४ 'कदापि न पुन:' इति ख- पाठः ।
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200