Book Title: Jain Dharmvar Stotra
Author(s): Bhavprabhsuri, Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 132
________________ श्रीभावप्रभसूरिकृतम् कालोऽयं जलदागमस्तदपि यः कामं जिगायादरात् तं वन्दे युवतिप्रबोधकुशलं श्रीस्थूलभद्रं मुनिम् ॥ ४ ॥ - शार्दूल० रे काम ! वामनयना तव मुख्यमत्रं वीरा वसन्त-पिक - पञ्चम- चन्द्रमुख्याः । त्वत्सेवका हरि - विरश्चि- महेश्वराद्या हा हा हताश ! मुनिनाऽपि कथं हृतस्त्वम् ॥ ५ ॥ - वसन्त० श्रीनन्दिषेण रथनेमिमुनीश्वराऽऽर्द्र बुद्ध्या त्वया मदन ! रे मुनिरेष दृष्टः । ज्ञातं न नेमि - मुनिजम्बु- सुदर्शनानां Jain Education International तुर्यो भविष्यति निहत्य रणाङ्गणे माम् || ६ || - वसन्त० इति लेशमात्रस्थूलभद्रकथानकम् || तथा अभयाह्वया राझ्या भोगार्थं याचितोऽचलित उपसर्गितो राज्ञा शूलिकायामारोपितो रत्नसिंहासनं जातं सुदर्शन श्रेष्ठिनः । इति पञ्चत्रिंशत्तमवृत्तार्थः ॥ ३५ ॥ सूत्रम् — 竑 ॐ आई 32 ब्राह्म्यादिका विमलशीलविभूषणाढ्याः सत्यो हि सन्ति बहवो भवितार एव । तासां तु नामजपनेन जिनेश ! पूतो जातो निकेतनमहं मथिताश ! यानाम् ॥ ३६ ॥ व्याख्या - ब्राह्म्यादिका इत्यादि । हि-निश्चितं हे जिनेश ! ब्राह्म्यादिकाः सत्यः बहवः सन्ति । पुनः सत्यः बहवो भवितारः - भविष्यन्त्येव । कथंभूताः सत्यः : विमलशीलमेव भूषणं तेन आढ्या :- संयुक्ताः । हे जिनेश ! हे 'मथिताश " मथिता - हता आशा - अभिलाषो येन, हे निरभिलाष ! | तुः अवधारणे । अहं भरतः तासां सतीनां नामजपनेन पूतः - पवित्रो जातः । कथंभूतोऽहं ? यानां - लक्ष्मीनां निकेतनं गृहम् । “लक्ष्मीः पद्मा रमा या सा" इत्यादि हैम: (का० २, श्लो० १४० ) । यतः ( श्रीधर्मसूरिकृते मङ्गलस्तोत्रे श्लो० १३ ) — "ब्राह्मी चन्दनबालिका भगवती राजीमती द्रौपदी कौशल्या सुमृगावती च सुलसा सीता सुभद्रा शिवा । कुन्ती शीलवती नलस्य दयिता चूला प्रभावत्यपि पद्मावत्यपि सुन्दरी दिनमुखे कुर्वन्तु वो मङ्गलम् ॥ १ ॥ १ 'जलदाविलस्तदपि' इति पाठः श्रीहीरालाल हंसराजेत्यैभिर्मुद्रिते स्थूलभद्रचरित्रे । चरित्रे (दे. का. पु. जै. ) ५५८-५५९ तमे पद्ये । १०९ For Private & Personal Use Only २-३ स्थूलभद्र www.jainelibrary.org

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200