Book Title: Jain Dharmvar Stotra
Author(s): Bhavprabhsuri, Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 155
________________ १३२ गोधूलिकार्थः __ अथवा । गौः-पृथिवी "भूस्तु भूमिरिव क्षितौ ॥ स्थाने च" इति हैमानेकार्थवचनात् (का० १, श्लो० ९-१०)। अत्र गोशब्दः स्थानवाची । तेन पट्टकाद्युचितस्थाने प्रधाना धूली यस्यां रचनायां सा । शेषं पूर्ववत् ॥ ११ ॥ ___ अथवा । गवा-वाण्या वचनपर्यायमय्या उपलक्षणत्वात् सधवमहिलामञ्जलगीतध्वन्युपलक्षिता प्रधानधूली-कुमादिः यस्यां रचनायां सा गोधूली ॥ १२ ॥ . अथवा । गौः-गुरुः हिताहितोपदेशकः तस्याने प्रधानधूली-कुङ्कुमादिः यस्यां रचनायां सा गोधूली ॥ १३ ॥ __ अथवा । गौः-गुरुः धर्मोपदेशकः तेन उपलक्षणत्वात् तचरणन्यासेन प्रधाना धूलिः-रजो यस्यां वसतौ उपाश्रये तत्र वा गोधूलिका । कप्रत्ययः । प्रत्ययाणितो वा भवन्ति कर्णाटककार्णाटक इत्यादिवत् वृद्धिविकल्पत्वम् । वृद्धौ सत्यामपि गोधूलिका । प्राकृत हस्खत्वं समानम् ॥१४॥ __ अथवा । गोखुरैरुत्खातधूलिसमये जातं गोधूलिकं अंशकलग्नमिति यावत् ज्योति शास्त्रप्रसिद्धं तद्वत् । गवा-वाण्या अर्थात् गुरुणा शास्त्रार्थकथनेन निषिध्यमानधूलिसमये निवार्यमाणपापरजोऽवसरे भवा-सधवाभिः कृता गोधूलिका उपचारत्वेन (प्रोसिद्धा ॥ १५ ॥ अथवा । गावः-वृषभाः सिद्धान्तभाषया गीतार्थाः तेषामग्रे प्रधानधृल्या भवा गोधूलिका ॥ १६॥ अथाध्यात्मदशायां गोधूलिकार्थो लिख्यते गावः-इन्द्रियाणि गुणगुणिनोरभेदात् तद्विषयाः शब्दादयः पञ्च ते धूलयः-रजांसि इव यस्याम् अध्यात्मदशायां सा गोधूलिका अध्यात्मस्वरूपमयी ॥१७॥ अथवा । गवा-ज्ञानेन न विद्यते धूलिः-पापरजो यस्यां अध्या० सा गोधूलिकम ॥ १८॥ अथवा । गौः-स्वर्गः श्रीः रमा च एते पदार्थाः धूलयः-रजांसि इव यस्यां अध्या० सा गोधूलिका अध्यात्मदशा ॥ १९॥ अथवा । गावः-सुखानि इन्द्रियजन्यसुखानि आ-समस्ता(त्) धूलयः-रजांसि एव यस्यां अध्या० सा गोधूलिका । अत्र 'एदोतोतः' (सा० सू० ५१) इति सूत्रेण क्वचिदाकारस्यापि लोपः ॥२०॥ अथवा । गौः-चित्तभूमिः तस्यां न विद्यन्ते धूलयः-अघरजांसि यस्यां अध्या० सा० गोधूलिका अध्यात्मदशा ॥ २१॥ अथवा । गवा-वह्निना तपसा न धूलयः-अधरजांसि यस्यां अध्या० सा गोधूलिका अध्यास्मदशा ॥२२॥ अथवा । गावः-जलानि शमजलानि तैः न धूलयः-अघरजांसि यस्यां० सा गोधूलिका अध्यात्मदशा ॥ २३ ॥ अथवा । गौः-नेत्रं ज्ञाननेत्रं तेन न धूलयः-पापरजांसि यस्यां० सा गोऽधूलिका अध्यास्मदशा ॥ २४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200