________________
१३२
गोधूलिकार्थः __ अथवा । गौः-पृथिवी "भूस्तु भूमिरिव क्षितौ ॥ स्थाने च" इति हैमानेकार्थवचनात् (का० १, श्लो० ९-१०)। अत्र गोशब्दः स्थानवाची । तेन पट्टकाद्युचितस्थाने प्रधाना धूली यस्यां रचनायां सा । शेषं पूर्ववत् ॥ ११ ॥ ___ अथवा । गवा-वाण्या वचनपर्यायमय्या उपलक्षणत्वात् सधवमहिलामञ्जलगीतध्वन्युपलक्षिता प्रधानधूली-कुमादिः यस्यां रचनायां सा गोधूली ॥ १२ ॥ . अथवा । गौः-गुरुः हिताहितोपदेशकः तस्याने प्रधानधूली-कुङ्कुमादिः यस्यां रचनायां सा गोधूली ॥ १३ ॥ __ अथवा । गौः-गुरुः धर्मोपदेशकः तेन उपलक्षणत्वात् तचरणन्यासेन प्रधाना धूलिः-रजो यस्यां वसतौ उपाश्रये तत्र वा गोधूलिका । कप्रत्ययः । प्रत्ययाणितो वा भवन्ति कर्णाटककार्णाटक इत्यादिवत् वृद्धिविकल्पत्वम् । वृद्धौ सत्यामपि गोधूलिका । प्राकृत हस्खत्वं समानम् ॥१४॥ __ अथवा । गोखुरैरुत्खातधूलिसमये जातं गोधूलिकं अंशकलग्नमिति यावत् ज्योति शास्त्रप्रसिद्धं तद्वत् । गवा-वाण्या अर्थात् गुरुणा शास्त्रार्थकथनेन निषिध्यमानधूलिसमये निवार्यमाणपापरजोऽवसरे भवा-सधवाभिः कृता गोधूलिका उपचारत्वेन (प्रोसिद्धा ॥ १५ ॥
अथवा । गावः-वृषभाः सिद्धान्तभाषया गीतार्थाः तेषामग्रे प्रधानधृल्या भवा गोधूलिका ॥ १६॥
अथाध्यात्मदशायां गोधूलिकार्थो लिख्यते
गावः-इन्द्रियाणि गुणगुणिनोरभेदात् तद्विषयाः शब्दादयः पञ्च ते धूलयः-रजांसि इव यस्याम् अध्यात्मदशायां सा गोधूलिका अध्यात्मस्वरूपमयी ॥१७॥
अथवा । गवा-ज्ञानेन न विद्यते धूलिः-पापरजो यस्यां अध्या० सा गोधूलिकम ॥ १८॥
अथवा । गौः-स्वर्गः श्रीः रमा च एते पदार्थाः धूलयः-रजांसि इव यस्यां अध्या० सा गोधूलिका अध्यात्मदशा ॥ १९॥
अथवा । गावः-सुखानि इन्द्रियजन्यसुखानि आ-समस्ता(त्) धूलयः-रजांसि एव यस्यां अध्या० सा गोधूलिका । अत्र 'एदोतोतः' (सा० सू० ५१) इति सूत्रेण क्वचिदाकारस्यापि लोपः ॥२०॥
अथवा । गौः-चित्तभूमिः तस्यां न विद्यन्ते धूलयः-अघरजांसि यस्यां अध्या० सा० गोधूलिका अध्यात्मदशा ॥ २१॥
अथवा । गवा-वह्निना तपसा न धूलयः-अधरजांसि यस्यां अध्या० सा गोधूलिका अध्यास्मदशा ॥२२॥
अथवा । गावः-जलानि शमजलानि तैः न धूलयः-अघरजांसि यस्यां० सा गोधूलिका अध्यात्मदशा ॥ २३ ॥
अथवा । गौः-नेत्रं ज्ञाननेत्रं तेन न धूलयः-पापरजांसि यस्यां० सा गोऽधूलिका अध्यास्मदशा ॥ २४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org