________________
श्रीभावप्रभसूरिसूत्रितः अथवा । गौः-लज्जा चारित्रधर्मरक्षणलज्जा तया न धू०-पा० यस्यां सा गोऽधूलिका ॥२५॥ अथवा । गावः-बाणाः उपयोगलक्षणाः तैर्न धूत-पा० य० सा गोऽधूलिका ॥ २६ ॥ अथवा । गावः-मातरः अष्टप्रवचनमातरः ताभिः न धू०-पा० य० सा गोऽधूलिका ॥२७॥ अथवा । गौः-वाणी जिनवाणी तया न धू०-पा० य० सा गोऽधूलिका ॥ २८॥
इति अध्यात्मदशायां गोधूलिकाशब्दार्थः॥ अथ लोकेऽपि गोधूलिकाशब्दोऽस्ति । यतः गौः-पृथिवी तजातित्वात् मृत्तिका खटिका वर्णिका उपलक्षणत्वात् गोमयमपि, एतेषां लेपनेन न धूलिः-रजो यस्यां भूमौ सा गोधूलिका मृत्तिका गोमयादिभिरश्चितभूमिमण्डलानि गुंहलीचतुष्क इत्यादीनि दीयन्ते क्रियन्ते च लोके प्रसिद्धम् । उक्तं च अर्धशीर्षकपीडानिवारणमन्त्रकथायां 'ॐ नमो अउट्ठावली' इत्यादिपदपतौ 'गुंहुली करइ मांडलांघई' इत्यादि । संस्कृते गोधूलिकाशब्दः गोधूलिका गोधूलिः गोधूली प्राकृते तु गुंहुली गुंहुलिया गुंहुलिका हखत्वं मकारागमश्च भवत्यलाक्षणिक इति ॥ २९॥ __ अथ द्वितीयं पदं गोहली गुंहली इति कोऽर्थः? उच्यते-गवि-पृथिव्यां हलवत् हलकर्षणोपचारो यस्याः स्वस्तिकरचनाया साः गोहलिका ॥ ३०॥ अथवा । हलिः इति महद्धलं धातुरत्नाकरोक्तं तदुपचारो यस्यां सा गोहलिः ॥३१॥ अथवा । गु:-कान्तिः हः-हर्षः अनयोः ली-श्लेषो यस्यां सा गुहली ॥ ३२ ॥ अथवा । गुः-कान्तिः हः-हर्षः अनयोः ला-आदानं यस्यां सा गुहलिका । अत्र 'गु' इति पदेन सधवता सुनेपथ्या सुरूपा चोक्ता । 'हर्ष'पदेन चित्तप्रसन्नता चोक्ता ॥ ३३ ॥
अथवा । गौः-ज्ञानं वाणी प्रभा कान्तिश्च एतेषां हः-निवासः आधारः आचार्यः "ओयंसि तेयंसि वच्चंसि" ( ) इत्यादिवचनात् तेषां अग्रे ला-इन्द्राण्य इव ला:-सधवाः श्राविकाः ताभ्यः सकाशात् भवा गोहलिका ॥ ३४ ॥
अथवा । गौः-ज्ञानं तेन न हः-क्रोधो यस्याः सा एवंविधा सधवा ला-इन्द्राणीव वस्साः भवा गोऽहलिका ॥ ३५॥ ___ अथवा । गौः-श्रीः रमा वा तया उपलक्षितो हः-हर्षी यासां ताः सधवाः ला:-इन्द्राण्य इव ताभ्यो भवा गोहलिका ॥ ३६॥
अथवा । गवां-श्रीणां शोभानां प्रभाणां च हः-निवासः आधारः अर्थात् सकलशोभामिलितदीपावलिकलितं दीपावलिकापर्व तस्मिन् लसतीति ला गोहला। गोहला एव गोहलिका ॥३७॥
अथवा । गवा-श्रिया केवलज्ञानलक्ष्म्या उपलक्षितः अः-अर्हन् तस्य हः-निवासः चैत्यः तत्र लसति-द्योतते या सा ला । कचिड्डप्रत्यये सिद्धम् । गोहलिका खार्थे कः आम काप्यत (१) इति सिद्धम् ॥ ३८॥ __ अथवा । गौः-श्रीः प्रभावः ताभ्यां उपलक्षितो हः-निवासः जिनप्रासादः तत्र लसतीति ला-जिनः तस्य इयं मूर्तिः ली तस्याः अग्रे भवा गोहलिका ॥ ३९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org