________________
१३४
गोधूलिकार्थः
अथवा | गौः - सुखं प्रभा उद्योतश्च ताभ्यां उपलक्षितः हः - निवासः जीवाजीवाधार क्षेत्रं जगत् यस्मात् स जिनजन्ममहोत्सवसमयः तस्मिन् समये कनकगिरिशिखरे ला:-इन्द्राण्यः लाःइन्द्राश्च सरूपाणामेकशेषे द्वन्द्वे पूर्वपदस्य लोपत्वात् तेभ्यो लेभ्यो भवा गोहलिका । अत्र तन्दुलमय्यामष्टमङ्गल्यां वाल्पापि गोहलिकारचना प्रोक्ता ॥ ४० ॥
अथवा | गो:- सुखं प्रभा च ताभ्यां उपलक्षितं अहः - दिवसः यस्मात् जिनजन्मसमयात् सः, शेषं तथैव । यतः - "नारका अध्यमोदन्त" इति “उद्योत त्रिजगत्यासीत्" इति प्रसिद्धं जिनजन्मावसरे । अत्राहः शब्दोऽकारान्तः समासप्रत्ययत्वात् । एवमत्र प्राकृते हस्वत्वं मकारागमश्च । तेन गुहलिका गुहली शेषं स्वभावतः सिद्धम् ॥ ४१ ॥
इत्येवं सर्वत्र शुभस्थाने मङ्गलार्थं गोहलिकारचनाविषयः प्रोक्तः । अत्र काव्यानि - इत्थं क क न विद्यते शुचिपदे गोधूलिकागोचरो यस्तूप लवहृत्प्रधानवनितागानोत्सवैः पूर्वकम् । नीतः श्री जिनदेशनान्तविषयं सच्छालिशालिर्बलि
स्तच्छायाऽनुभवोऽनुभावभवनं तद्वत् प्रसिद्धोऽप्ययम् ॥ १ ॥" - शार्दूल०
श्री तीर्थङ्करशासनोन्नतिकरी व्याख्यास मालङ्कृतिः साधुभ्यो विनयं नयं च ददती प्रत्यूहविध्वंसिनी । सन्मुक्ताक्षतपूरिताक्षयगुणाकम्प्राकृतिः कौमी
माङ्गल्यैकमयी व्ययीकृततमा गोधूलिका गीयते ॥ २ ॥ -,, भो भो धर्मधनाः ! सरोजवदनाः ! पीनस्तनाः ! पावनाः ! शीलालङ्कृतभूघनाः । पघना ! गावोल्लसच्चन्दनाः ! | लब्ध्वा मर्त्यभवं तथा सुघवतां सौभाग्यमारोग्यतां
धद्धं तत्फललब्धये गुरुपुरो गोधूलिकागौरवम् ॥ ३ ॥ -,, स्वगुरुपदकृपातो ज्ञात किञ्चिद्रहस्यः
शिवपथकथकार्हच्छासने भव्यभक्तिः ।
समयरुचजनार्थं सूरिभावप्रभाख्यो
गदति गलितपापं स्पष्टगोधूलिकार्थम् ॥ ४ ॥ - मालिनी
इति श्रीभावप्रभसूरीणामियं कृतिः शिष्यादीनां बुद्धिलतापल्लवनार्थं सम्पूर्णा । संवत् १९५८ ।
१ वीतरागस्तोत्रे दशमे प्रकाशे सप्तमस्य पद्यस्येदमाद्यं चरणम् । सम्पूर्ण तत् पद्यं तु यथा
"नारका अध्यमोदन्त, यस्य कल्याणपर्वसु ।
पवित्रं तस्य चारित्रं, को वा वर्णयितुं क्षमः ? ॥"
Jain Education International
२ सु-सुष्ठु अपघनः - देहो यासां ताः ।
For Private & Personal Use Only
www.jainelibrary.org