________________
श्रीभावप्रभसूरिसूत्रितः
१३१
कान - सुखानि यस्यां प्रणतौ सा गोधूलिका तीर्थङ्करादिसुखकृतप्रण तिरस्तु । “कं सुखे शीर्षे जले च" ( ) प्रसिद्धम् ।। ३ ।।
अथ मरुदेवागतमङ्गलमाह
गौः-वृषभः तेन वृषभलाञ्छनेन उपलक्षितः अः - अर्हन् तस्य धूलिः अर्थात् शरीरलमधूलिः तस्याः सकाशात् अर्थात् आलिङ्गनात् कानि - सुखानि यस्याः सा गोधूलिका भगवञ्जननी मरुदेवा सुखायास्तु । यतः (पद्मानन्द महाकाव्ये स० ८, श्लो० ५२ ) -
" धूलिधूसरममुं मरुदेवा - sऽश्लिष्य मीलिनयना स्वयमासीत् ।
अन्तरे वपुरिदं सुखपूरैः पूरितं कियदितीव दिदृक्षुः || ४ ||" ( स्वागता )
अथ गुरुगतमङ्गलमाह -
गौः- गुरुः तस्य धूलिः अर्थात् चरणकमलरजः तस्याः कानि - सुखानि यस्यां प्रणतौ सा गोधूलिका । गुरुचरणकमलरजः स्पर्शसुखप्रणतिः सुखायास्तु ॥ ५ ॥
अथ सरखतीगतमङ्गलमाह -
गोभिः - जलैः धूल्या च उपलक्षितः कः - आत्मा रूपं यस्याः सा गोधूलिका - सरस्वती ज्ञानवृद्धयेऽस्तु । “को ब्रह्मण्यात्मनि खौ " इति कोषे ( हैमेऽनेकार्थसङ्ग्रहे का० १, श्लो० ५ ) । अत्र श्लिष्टार्थत्वात् गौः - श्रुतदेवीबीजं गकारं विनाऽपि अरपि बीजम् । यतः -
"अस्त्वौर्वोऽपि सरखती मनुगतो जाड्याम्बुविच्छित्तये
गोशब्दो गरि वर्तते स नियतं योगं विना सिद्धिदः ||"
इति लघुस्तवे । सरखत्या हि जलानि धूल्याविलानि भवन्तीति युक्तोऽयमर्थः ॥ ६ ॥ इति मङ्गलाचरणार्थः ॥
अथ प्रस्तुतमाह
गोः - पृथिव्याः प्रधाना धूली- कुङ्कुमादिः यस्यां रचनायां सा गोधूली, मध्यपदलोपत्वात् गोधूली एव गोधूलिका चेति । धूलिशब्दो खो दीर्घश्व ईब्विधानविकल्पात् गोधूली इत्यत्र सम्बन्धमात्रत्वात् केसरखटिकाद्युचितद्रव्यपरिग्रहः ॥ ७ ॥
. ( गौः - धूली ) अथवा । गौः - अग्निः तद्वत् तद्वर्णसमाना धूली-कुङ्कुमादिः यस्यां रचनायां सा । शेषं पूर्ववत् ॥ ८ ॥
गोभिः - जलैः द्रवीकृता प्रधानधूली - कुङ्कुमादिरसो यस्यां रचनायां सा । शेषं पूर्ववत् ॥ ९॥ अथवा । गवि - पृथिव्यां प्रधानधूलिः - कुङ्कुमादिः यस्यां रचनायां सा । शेषं पूर्ववत् ॥ १० ॥
१ “कं सुखे वारि शीर्षे च' इति पाठो विश्वलोचने (श्लो० ३ ) ।
२ भयं लघुस्तवनाम्नः सरस्वतीस्तोत्रस्य पञ्चमपद्यस्य उत्तरार्धः । पूर्वार्धस्तु यथा
Jain Education International
"यत् सद्यो वचसां प्रवृत्तिकरणे दृष्टप्रभावं बुधैस्तातयं तदहं नमामि मनसा व्वबीजमिन्दुप्रभम्”
For Private & Personal Use Only
www.jainelibrary.org