________________
१३०
गोधूलिकार्थः "(शून्ये बिन्दौ सुखे खस्तु, सूर्ये ) गौरुदके दृशि ।।
__ स्वर्गे दिशि पशौ रश्मी, वज्रे भूमाविषौ गिरि ॥१॥" इति हैमानेकार्थसूत्रे (का० १, श्लो० ६)।
'घुगमिभ्यां डो' (सिद्ध० उणादि० ८६७) इति सूत्रेण गमेडौँ प्रत्यये डित्वाहिलोपे गच्छतीति गौः दशस्वर्थेषु स्त्रीपुंसयोः। अन्ये तु आचार्याः “वागादौ स्त्रियां स्वर्गादौ पुंसि पशौ द्वयोः जलाक्ष्णोः क्लीबे" इत्याहुः । उदके यथा-"गावो वहन्ति विमलाः शरदि स्रवन्याम्" इत्यादि । इति हैमानेकार्थस्य कैरवाकरकौमुद्यां टीकायाम् ॥ ७ ॥
"स्वर्गे रश्मौ च वजे च, बलीवर्दे च गौः पुमान् ।
स्त्री-बाण-रोहिणी-नेत्र-दिग्-वाग्-भूष्वप्सु भूम्नि च ॥१॥" "हेमसूरयोऽमुं सर्वेष्वर्थेषु पुंस्त्रीलिङ्गमाहुः" इति धातुरत्नाकरे श्रीसाधुसुन्दरोपाध्यायाः ॥५॥
"गौर्वजे सुवृषे धेनौ वाचि दिग्बाणयोगिरि ॥
भू-मयूख-सुख-खगे-सत्य-वह्नय-क्षि-मातृषु ॥१॥" 'ला आदाने "ल इन्द्रे चलने मृते लिः लावे ली श्लेषककणेव ॥” इति महीपकोषे॥७॥
"बाणे चापि पशौ भूमौ, दिशि रश्मिजले दृशि।
स्वर्गे मातरि वज्रेऽग्नौ, सुखे सत्त्वे च गोध्वनि ॥१॥" . इति अनेकार्थध्वनिमचर्याम् ॥ ७ ॥ "ल इन्द्रे चलनेऽपि च" इति अमरानेकाक्षर्यां (काव्यकल्पलतायां
प्र० ३, स्त० ५, पृ० १११)॥७॥ अथ मङ्गलाचरणविचारणायां प्रथमतः श्रीनाभिराजाङ्गजश्रीऋषभदेवगतमङ्गलमाहगौः-वृषभः 'सर्व वाक्यं सावधारणं भवति' इति न्यायात् तेन वृषभलाञ्छनेन उपलक्षितः अ-अर्हन् । 'असिआउसानमः' इति वचनात् 'विशेषणशक्त्या विशेष्यः प्रतीयते' तेन श्रीनाभेयजिनः तस्य धूलिका (धूलौ भवा धूलिका)-धूलिक्रीडा गोधूलिका सुखाय भवत्वित्यन्वयः। अत्र 'एदोतोऽतः' (सा० सू० ५१) इति सूत्रेणाकारलोपः । एवमग्रेऽपि यथास्थानं ज्ञातव्यम् ॥१॥
अथवा गौः-वर्गः आधारे आधेयोपचारात् तन्निवासिनो देवाः तैः सह अः तस्य धूलिकाधूलिक्रीडा गोधूलिका। शेषं पूर्ववत् ॥ २॥
अथ सकलतीर्थङ्करादिगतमङ्गलमाहगोभिः-ज्ञानैः अन्योन्याविनाभावात् ज्ञान-दर्शन-चारित्रैर्निजोचितगुणस्थानान्वितैः कृत्वा उपलक्षिताः वा, न विद्यन्ते धूलयः-अघरजांसि येषां ते तीर्थङ्कराः गणधराः साधवश्च तेभ्यः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org