________________
श्रीभावप्रभसूरिसूत्रितः ॥ गुंहलिकापरपर्यायगोधूलिकार्थः ॥
श्रीमहिमाप्रभसूरिसद्गुरुभ्यो नमः ॥ ऐं नमः ।। नत्वा पार्श्वजिनेन्द्राय महिमाप्रभसद्मने ।
ब्रवीमि गुंहलीकार्थ सूरिर्भावप्रभाह्वयः ॥१॥ श्रीमति जिनशासने देवगुरुप्रमुखपुरतो भक्तिहेतोर्माङ्गल्यहेतोः सिद्धान्तविनयहेतोः लोकेऽपि च सुखभक्षिकाभाजनसमीपभूमण्डले तदक्षयहेतोः स्वस्तिकरचना क्रियते । अत्र केचित् तु गुरुकुल भ्रष्टा ज्ञान विकलास्तां नाङ्गीकुर्वन्ति तेऽनन्तसंसारिणो ज्ञेयाः । यतः साधुस्तान्यर्चनादीनि मनसाऽपि न प्रार्थयेत् । परं श्रावकैस्तु गुरुभक्त्या तानि कर्तव्यान्येव । अन्यथा तत्रैव पञ्चत्रिंशोत्तराध्ययने प्रोक्तानां क्रियमाणानां च वन्दनादीनामप्यकर्तव्यापत्तेः । यतस्तत्र (अष्टादशी) गाथा
"अच्चणं रयणं चेव, वंदणं पूअणं तहा ।
____ इड्डीसकारसम्माणं, मणसा वि न पत्थए ॥१॥" अत्र रयणं रञ्जनं इत्यस्यार्थो 'गुंहली' इति कथित इति । स्वस्तिकरचनाया नाम गोधूलिका इत्यादि संस्कृते । प्राकृतभाषायां तु गुंहुलिका गुंहुली इत्यादि नामान्तराणि कथ्यन्ते । तेषां काव्यव्युत्पत्तिरत्रोच्यते । प्रथमत उपयोगार्थ कोशा लिख्यते
"गौर्वाणी-घाण-भू-रश्मि-वज्र-खर्गाऽक्षि-वारिषु ।। दिशि धेनौ श्रुतेश्वर्या, गणेशे चापि गौः स्मृतः॥१॥" (सुधा०, श्लो० १३)
तथा च-"हः शूलिनि करे नीरे, क्रोधे गर्भप्रभाषणे। निवासे च" इति (सुधा०, श्लो०४५) इति एकाक्षरनिघण्टौ ॥ ७ ॥
"गौर्वजं गौः प्रभा भूमि-र्वाणी तोयं त्रिविष्टपम् । धेनुर्वस्तो वृषो दिग् गौ-र्नेत्रं लज्जा गुरू रमा ॥१॥ इन्द्रियं श्रीरुमा च" इति
"हो हर्षो हिरण्याक्षोऽथ तस्करः ॥" इति सौभरिनामकोषे ॥७॥
छाया
अर्चनं रञ्जनं चैव वन्दनं पूजनं तथा।
द्विसत्कारसन्मानं मनसाऽपि न प्रार्थयेत् ॥ २-३ श्रीसुधाकलशप्रणीतायां एकाक्षरनाममालिकायामिति । चैन खो० १५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org