Book Title: Jain Dharmvar Stotra
Author(s): Bhavprabhsuri, Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 157
________________ १३४ गोधूलिकार्थः अथवा | गौः - सुखं प्रभा उद्योतश्च ताभ्यां उपलक्षितः हः - निवासः जीवाजीवाधार क्षेत्रं जगत् यस्मात् स जिनजन्ममहोत्सवसमयः तस्मिन् समये कनकगिरिशिखरे ला:-इन्द्राण्यः लाःइन्द्राश्च सरूपाणामेकशेषे द्वन्द्वे पूर्वपदस्य लोपत्वात् तेभ्यो लेभ्यो भवा गोहलिका । अत्र तन्दुलमय्यामष्टमङ्गल्यां वाल्पापि गोहलिकारचना प्रोक्ता ॥ ४० ॥ अथवा | गो:- सुखं प्रभा च ताभ्यां उपलक्षितं अहः - दिवसः यस्मात् जिनजन्मसमयात् सः, शेषं तथैव । यतः - "नारका अध्यमोदन्त" इति “उद्योत त्रिजगत्यासीत्" इति प्रसिद्धं जिनजन्मावसरे । अत्राहः शब्दोऽकारान्तः समासप्रत्ययत्वात् । एवमत्र प्राकृते हस्वत्वं मकारागमश्च । तेन गुहलिका गुहली शेषं स्वभावतः सिद्धम् ॥ ४१ ॥ इत्येवं सर्वत्र शुभस्थाने मङ्गलार्थं गोहलिकारचनाविषयः प्रोक्तः । अत्र काव्यानि - इत्थं क क न विद्यते शुचिपदे गोधूलिकागोचरो यस्तूप लवहृत्प्रधानवनितागानोत्सवैः पूर्वकम् । नीतः श्री जिनदेशनान्तविषयं सच्छालिशालिर्बलि स्तच्छायाऽनुभवोऽनुभावभवनं तद्वत् प्रसिद्धोऽप्ययम् ॥ १ ॥" - शार्दूल० श्री तीर्थङ्करशासनोन्नतिकरी व्याख्यास मालङ्कृतिः साधुभ्यो विनयं नयं च ददती प्रत्यूहविध्वंसिनी । सन्मुक्ताक्षतपूरिताक्षयगुणाकम्प्राकृतिः कौमी माङ्गल्यैकमयी व्ययीकृततमा गोधूलिका गीयते ॥ २ ॥ -,, भो भो धर्मधनाः ! सरोजवदनाः ! पीनस्तनाः ! पावनाः ! शीलालङ्कृतभूघनाः । पघना ! गावोल्लसच्चन्दनाः ! | लब्ध्वा मर्त्यभवं तथा सुघवतां सौभाग्यमारोग्यतां धद्धं तत्फललब्धये गुरुपुरो गोधूलिकागौरवम् ॥ ३ ॥ -,, स्वगुरुपदकृपातो ज्ञात किञ्चिद्रहस्यः शिवपथकथकार्हच्छासने भव्यभक्तिः । समयरुचजनार्थं सूरिभावप्रभाख्यो गदति गलितपापं स्पष्टगोधूलिकार्थम् ॥ ४ ॥ - मालिनी इति श्रीभावप्रभसूरीणामियं कृतिः शिष्यादीनां बुद्धिलतापल्लवनार्थं सम्पूर्णा । संवत् १९५८ । १ वीतरागस्तोत्रे दशमे प्रकाशे सप्तमस्य पद्यस्येदमाद्यं चरणम् । सम्पूर्ण तत् पद्यं तु यथा "नारका अध्यमोदन्त, यस्य कल्याणपर्वसु । पवित्रं तस्य चारित्रं, को वा वर्णयितुं क्षमः ? ॥" Jain Education International २ सु-सुष्ठु अपघनः - देहो यासां ताः । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200