Book Title: Jain Dharmvar Stotra
Author(s): Bhavprabhsuri, Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 135
________________ श्रीजैनधर्मवरस्तोत्रम् कथंभूताः पदार्थाः ? 'प्रोद्यत्प्रबन्धगतयः' प्रोद्यत्सु-उत्कटेषु प्रबन्धेषु-वीररसादिमयेषु गतिःगमनं येषां ते इति । ते के पदार्थाः ? तानाह-सीताहतिः रावणेन सीतायाः हरणं कृतम्, तदनन्तरं रामचन्द्रेण जलधिलङ्घनं कृतम् , ततश्च रावणेन सह आहवः-सङ्ग्रामः कृतः, ततो रणेन रक्षसः-रावणस्य वधः कृतः जातः । रक्षःशब्दो नपुंसकः हसान्तः। ततः प्रतिह(कृ?)तिःसीता गृहं नीता। ततो लोकापवादात् सीता अटव्यां मोचिता। ततः सीतायाः दिव्यं दत्तम् । तेन सीतया ज्वलनप्रवेशः कृतः। ततो विमलशीलतया सीता पुण्या-पवित्रा जाता अत्रापि पुण्यशब्दो योज्य इति । सीताशब्दो दन्ततालव्य इति ॥ अत्र लेशतः सम्बन्धमाह_ 'अयोध्या'यां दशरथपुत्रौ राम-लक्ष्मणौ स्तः। पद्मन जनकनृपपुत्री जानकी परिणीता कैकेयीराज्ञीवरव्यतिकरात् सीतया सह राम-लक्ष्मणौ वनं गतौ । सौमित्रिणा वंशजाला न्तरस्थितो विद्यां साधयन् शम्बूकनामा सूर्पणखापुत्रो हतः क्रीडताऽज्ञानतः। तत्रागतय सूर्पणखया दृष्टो रामः। रूपरञ्जितया कामातुरया भोगार्थ याचितः । तेन तिरस्कृता । इतः शम्बूकनिमित्तं लक्ष्मणस्य रामेण सह सिंहनादो मया सङ्कटे विधेय इति कृतसङ्केतर शम्बूकपक्षीयविद्याधरैः सह युद्धं लग्नं वर्तते स । तया चन्द्रणखया गत्वा रावणाने सीत रूपं वर्णितम् । तस्य मनश्चलितम् । यतः "द्विजराजमुखी मृगराजकटिः, तरुराजविराजितजङ्घतटी। यदि सा वनिता हृदये वसिता, क तपः क जपः क समाधिविधिः ॥१॥"-तोटकम् अथ बालभारते (आदिपर्वणि स० १, श्लो० ३६ ) अपि"अभ्यस्य शश्वजघने धनेऽस्याः, सौभाग्यसिन्धोः पुलिने पुलिन्दः। वेध्यं शराणां कुरुते न कस्य, चलं च सूक्ष्मं च मनो मनोभूः १ ॥१॥"-उप० स पौलस्त्यस्तत्र गत्वा मत्रविद्याविज्ञाततत्सिहनादसङ्केतः स्वयं सिंहनादकरणच्छलेन तदनु तगमने रामे मुनिप्रतिबोधितं जातिस्मरणवन्तं सीतासमीपस्थं रक्षार्थ युध्यमानं जटायुनाम पक्षिणं हत्वा गृहीत्वा सीतां 'लङ्कां' समाययौ । लौकिकास्तु "न भूतपूर्व(वो) न च केन दृष्टो, हैमः (हेग्नः ?) कुरङ्गो न कदापि वार्ता । तथापि तृष्णा रघुनन्दनस्य, विनाशकाले विपरीतबुद्धिः॥१॥"-उपेन्द्रवत्रा इति सौवर्णमृगच्छलं कथयन्ति । ततो ज्ञातव्यतिकरौ राम-लक्ष्मणौ पुण्यवशाद् वानरविद्या सुग्रीवादिमिर्मिलितैः समुद्र-सेतुनामानौ नृपौ रावणसेवको सागरोपकण्ठं जित्वा । विद्याबलेन 'लङ्का'समीपमाजग्मतुः । अत्र लौकिकाः-सागरमध्ये पाषाणैर्बद्धपालिः वान पशव एव । यतः १ रामचन्द्रेण । २ तमनु-लक्षीकृत्य कृतं गमनं येन स तस्मिन् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200