Book Title: Jain Dharmvar Stotra
Author(s): Bhavprabhsuri, Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 146
________________ श्रीभावप्रभसूरिकृतम् १२३ द्रव्यलिङ्ग गृहाण । तदा केवलश्रीगृहे भरतः केशलोचं चकार । रजोहरणमुख्योपकरणं व्रतलक्षणं समीपदेवतादत्तं जग्राह । यतः "आत्तदीक्षो नमश्चक्रे, शक्रेण भरतस्ततः । सम्प्राप्तकेवलोऽपि स्या-न नमस्यो ह्यदीक्षितः॥१॥"-अनु० दशसहस्रमितै पैस्तमनु दीक्षा गृहीता । इन्द्रेण भरतपुत्र आदित्ययशा राज्येऽलङ्कतः। अथ भरतो यतिदीक्षाकालात् पूर्वलक्षं भुवि भव्यान प्रबोधयन् परिवारयुतो विजहार । 'अष्टापदे' गत्वा चतुर्विधाहारत्यागेनैकमासान्ते भरतकेवली सिद्धिं ययौ, सिद्धानन्तचतुष्टय इति । कौमारे सप्ततिः पूर्वलक्षा अतिवाहिताः भरतेन । वृषभध्वजे राज्यं कुर्वति सति मण्डलिकत्वे भरतो वर्षाणामेकं सहस्रमत्यवाहयत् । ब्रह्मस्थे प्रभुर्यथा वर्षेकसहस्रोनानि षट्पूर्वलक्षाणि चक्रित्वेऽयं ध्यतिक्रामति स । जातकेवलः पूर्वलक्षमेकं विजहे इत्यायुश्चतुरशीति-पूर्वलक्षाः प्रपाल्य सः। सिद्धिं ययौ सुरास्तस्य, निर्वाणमहिमा व्यधुः॥१॥-अनु० इति भरतचक्रिसम्बन्धः पूर्णः । इति द्वाचत्वारिंशत्तमवृत्तार्थः ॥ ४२ ॥ अथ स्तवनसमाप्तिमङ्गलमाचरन् स्तुतिकारकाणां फलं दर्शयतिसूत्रम् त्रैलोक्यरूपविषये सुपरीक्षणेऽत्र बिम्बं त्वदीयमतुलं नयनामृताभम् । कर्मापहारि हृदयाम्बुरुहे निधाय ये संस्तवं तव विभो! रचयन्ति भव्याः॥४३॥ व्याख्या-त्रैलोक्य इति राका इति युग्मम् । हे विभो ! हे जिन! ये पुरुषाः तव संस्तवनं रचयन्ति-कुर्वन्ति । किं कृत्वा ? त्वदीयं-तव इदं बिम्ब-प्रतिविम्बं स्वरूपं वा हृदयाम्बुरुहेहृत्कमले निधाय-धृत्वा । कथंभूतं त्वदीयं बिम्बम् ? अत्र त्रैलोक्यरूपविषये-त्रिभुवनस्वरूपवस्तुनि परीक्षणे-परीक्षाकरणे अतुलं-उपमानरहितम् । पुनः किंविशिष्टं बिम्बम् ? नयनामृताभ-लोचनेषु सुधातुल्यम् । पुनः किं० विम्बम् ? कर्मापहारि-अष्टकर्मनि शकम् । (इति) त्रिचत्वारिंशत्तमवृत्तार्थः ॥४३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200