________________
श्रीभावप्रभसूरिकृतम्
१२३ द्रव्यलिङ्ग गृहाण । तदा केवलश्रीगृहे भरतः केशलोचं चकार । रजोहरणमुख्योपकरणं व्रतलक्षणं समीपदेवतादत्तं जग्राह । यतः
"आत्तदीक्षो नमश्चक्रे, शक्रेण भरतस्ततः ।
सम्प्राप्तकेवलोऽपि स्या-न नमस्यो ह्यदीक्षितः॥१॥"-अनु० दशसहस्रमितै पैस्तमनु दीक्षा गृहीता । इन्द्रेण भरतपुत्र आदित्ययशा राज्येऽलङ्कतः। अथ भरतो यतिदीक्षाकालात् पूर्वलक्षं भुवि भव्यान प्रबोधयन् परिवारयुतो विजहार । 'अष्टापदे' गत्वा चतुर्विधाहारत्यागेनैकमासान्ते भरतकेवली सिद्धिं ययौ, सिद्धानन्तचतुष्टय इति । कौमारे सप्ततिः पूर्वलक्षा अतिवाहिताः भरतेन । वृषभध्वजे राज्यं कुर्वति सति मण्डलिकत्वे भरतो वर्षाणामेकं सहस्रमत्यवाहयत् । ब्रह्मस्थे प्रभुर्यथा वर्षेकसहस्रोनानि षट्पूर्वलक्षाणि चक्रित्वेऽयं ध्यतिक्रामति स । जातकेवलः पूर्वलक्षमेकं विजहे
इत्यायुश्चतुरशीति-पूर्वलक्षाः प्रपाल्य सः।
सिद्धिं ययौ सुरास्तस्य, निर्वाणमहिमा व्यधुः॥१॥-अनु० इति भरतचक्रिसम्बन्धः पूर्णः । इति द्वाचत्वारिंशत्तमवृत्तार्थः ॥ ४२ ॥
अथ स्तवनसमाप्तिमङ्गलमाचरन् स्तुतिकारकाणां फलं दर्शयतिसूत्रम्
त्रैलोक्यरूपविषये सुपरीक्षणेऽत्र
बिम्बं त्वदीयमतुलं नयनामृताभम् । कर्मापहारि हृदयाम्बुरुहे निधाय
ये संस्तवं तव विभो! रचयन्ति भव्याः॥४३॥ व्याख्या-त्रैलोक्य इति राका इति युग्मम् । हे विभो ! हे जिन! ये पुरुषाः तव संस्तवनं रचयन्ति-कुर्वन्ति । किं कृत्वा ? त्वदीयं-तव इदं बिम्ब-प्रतिविम्बं स्वरूपं वा हृदयाम्बुरुहेहृत्कमले निधाय-धृत्वा । कथंभूतं त्वदीयं बिम्बम् ? अत्र त्रैलोक्यरूपविषये-त्रिभुवनस्वरूपवस्तुनि परीक्षणे-परीक्षाकरणे अतुलं-उपमानरहितम् । पुनः किंविशिष्टं बिम्बम् ? नयनामृताभ-लोचनेषु सुधातुल्यम् । पुनः किं० विम्बम् ? कर्मापहारि-अष्टकर्मनि शकम् । (इति) त्रिचत्वारिंशत्तमवृत्तार्थः ॥४३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org