________________
१२४
श्रीजैनधर्मवरस्तोत्रम् ___ सूत्रम्
राकागणेश्वरनिभास्तेजःपुजैरतीव पुण्याढ्याः । तेऽनन्तसुखसमेता अचिरान्मोक्षं प्रपद्यन्ते ॥ ४४ ॥ युग्मम्
-आर्याच्छन्दः ते भव्याः पुरुषाः अचिरात्-स्तोककालेन मोक्ष-अचलस्थानं प्रपद्यन्ते-प्राप्नुवन्ति तदनुक्रमणिकामाह-कथंभूताः ते ? राका-पूर्णचन्द्रोपलक्षिता तिथिः-पूर्णिमा, अत्र अधिकारात् चैत्रपूर्णिमा तया उपलक्षितो गणेश्वरः-चैत्रपूर्णिमायां लब्धकेवलज्ञानपुण्डरीकगणपतिः तेन निभाः-सदृशाः। कैः ? तेजःपुजैः । अत्र श्लेषपदत्वात् राकागणेश्वरैः श्रीपूर्णिमागच्छपतिभिः श्रीसुधर्मस्वामिपरम्परागतपट्टाम्बुजप्रभापतिभिर्निभा इति । पुनः कथंभूताः? अतीव पुण्याढ्याः-भृशं सुकृतभृतः, प्राप्तदेवभवा इत्यर्थः । ततोऽनन्तरं पुनः कथं० ? अनन्तसुखसमेताः-अनन्तचतुष्टयसमेताः इति । अत्र ये संस्तवं रचयन्तीति पूर्वकाघ्योक्तं तस्यायमर्थः-व्यवहारतो जिनशरीरादिवर्णनम् । यतः
"सुवर्णवर्ण गजराजगामिनं, प्रलम्बबाहुं सुविशाललोचनम् ।
नरामरेन्द्रैः स्तुतपादपङ्कजं, नमामि भत्त्या वृषभं जिनोत्तमम् ॥१॥"-वंशस्थम् इति । अथ यत्र ज्ञानदर्शनगुणवर्णना क्रियते सा निश्चयनयस्तुतिः।
"वयंभुवं भूतसहस्रनेत्रमनेक-मेकाक्षरभावलिङ्गम् ।
अव्यक्तमव्याहतविश्वलोक-मनादिमध्यान्तमपुण्यपापम् ॥ १॥"-उप० इत्यादि सिद्धसेनकृतद्वात्रिंशद्वात्रिंशिकायाम् । पुनर्यतः
"ज्ञानविष्णुः सदा प्रोक्त-चारित्रब्रह्म उच्यते । सम्यक्त्वं तु शिवः प्रोक्तो-ऽप्यर्हन्मूर्तिस्त्रयात्मिका ॥१॥-अनु० क्षिति-जल-पवन-हुताशन-यजमाना-ऽऽकाश-सोम-सूर्याख्याः । इत्येतेऽष्टौ भगवति, वीतरागे गुणा मताः ॥२॥-आर्या क्षितिरित्युच्यते शान्ति-र्जलं ज्योतिः प्रसन्नता । निःसङ्गता भवेद् वायु- ताशो योग उच्यते ॥३॥-अनु० यजमानो भवेदात्मा, तपोदानदयादिभिः।। अलेपत्वात् तदाकाश-सङ्काशः सोऽभिधीयते ॥४॥-अनु० सौम्यमूर्तिरुचिश्चन्द्रो, वीतरागः समीक्ष्यते । ज्ञानप्रकाशकत्वेन, आदित्यः सोऽभिधीयते ॥ ५॥-अनु० पुण्यपापविनिर्मुक्तो, रागद्वेषविवर्जितः।
श्रीअर्हद्भ्यो नमस्कारः, कर्तव्यः शिवमिच्छता ॥६॥-अनु० १ अप्रत्यश्छन्दोभङ्गश्चिन्त्यः। २-३ 'या च', 'अलेपकत्वादाकाशः' इति पाठान्तरे तत्त्वनिर्णयप्रासादे (पृ. ७५)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org