SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ श्रीभावप्रभसूरिकृतम् अकारेण भवेद् विष्णू, रेफे ब्रह्मा व्यवस्थितः । हकारेण हरः प्रोक्त-स्तस्यान्ते परमं पदम् ॥ ७ ॥ - अनु० अकार आदिधर्मस्य, आदिमोक्षप्रदेशकः । स्वरूपे परमं ज्ञानं, अकारस्तेन उच्यते ॥ ८ ॥ - अनु० रूप (प.) द्रव्यस्वरूपं वा दृष्ट्वा ज्ञानेन चक्षुषा । लोकमलकान्तं, कारस्तेन उच्यते ।। ९ ।। - अनु० हता रागाच द्वेषाच, हता मोहपरिग्रहाः । हतानि येन कर्माणि, हकारस्तेन उच्यते ॥ १० ॥ - अनु० सन्तोषेणाभिसम्पूर्णः, प्रातिहार्याष्टकेन च । ज्ञात्वा पुण्यं च पापं च, नकारस्तेन उच्यते ॥ ११ ॥ - अनु० भवबीजाङ्कुरजनना, रागाद्याः क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै ॥ १२ ॥ - आर्या इत्यादि स्वरूपतो निश्चयतोऽर्ह इत्यक्षरमध्ये यं परमेष्ठिवाचकं सिद्धचक्रस्यादिवीजं जिनबिम्बस्तुतिद्वारेण अचिरान्मोक्षं प्रपद्यन्ते । इति फलद्वारसहितेन स्तवनस्यान्ते परममाङ्गल्यभूतं दर्शितम् । इति चतुश्चत्वारिंशत्तमवृत्तार्थः ॥ ४४ ॥ 30 30. 法 अथ स्तवनकारः स्वप्रशस्तिमाह सूत्रम् Jain Education International ★ भावप्रभाख्यवरसूरिगणाधिपेन श्रीजैनधर्मवर संस्तवनं सुरम्यम् । शिष्यस्य कौतुककृते रचितं सुबोधं १३५ कल्याणमन्दिरसदन्तिमपादलग्नम् ॥ ४५ ॥ व्याख्या - भावेति । 'भावप्रभाख्यवरसूरि गणाधिपेन' श्री भावप्रभनाम्ना वरसूरिणा - गच्छपतिना कर्तृपदेन श्रीजैनधर्मवर संस्तवनं नाम्ना रचितं कृतम् । कस्मै ! शिष्यस्य कौतुककृतेशिष्यजनस्य हर्षार्थम् । कृते इत्यव्ययं तादर्थ्ये । यतः - "कौतुकं नर्मणीच्छाया-मुत्सवे कुतुके मुदि । पारम्पर्यगतख्यात - मङ्गलोद्वाहसूत्रयोः । गीतादौ भोगकाले च ॥" इति है मानेकार्थः (का० ३, ६३५ - ६३६ ) । कथंभूतं (श्री) जैन ० १ सुरम्यम् - अतिमनोहरम् । पुनः कथं ० जैन० १ सुबोधं - उत्तानार्थम् । पुनः कथं० जैन० ? 'कल्याणमन्दिरसद न्तिमपादलनं' कल्याणमन्दिरनाम्नः श्रीपार्श्वनाथस्य श्री सिद्धसेनस्तुतिकारकृतस्य सदन्तिमपादं - शोभनप्रान्तचरणे लग्नं- संलग्नं - प्रहीभूतं, आश्रितमित्यर्थः ॥ ४५ ॥ १ 'परीषाहाः ' इति पाठान्तरं तत्त्व० ( पृ० ७७ ) । For Private & Personal Use Only www.jainelibrary.org
SR No.002969
Book TitleJain Dharmvar Stotra
Original Sutra AuthorBhavprabhsuri
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy