SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १२६ श्रीजैनधर्मवरस्तोत्रम् इति श्री पूर्णिमा'गच्छीयप्रधानशाखीयसुधर्मस्वामिपरम्परागतपट्टाम्बुजतपनवादिमदमर्दनकृतमिथ्यात्वतर्जनश्रीभट्टारकश्रीविद्याप्रभसूरिर्वभूव । तत्पट्टाम्बुजभास्करललितवचनविबोधितभविकनिकरभट्टारकश्रीश्रीललितप्रभसूरिजज्ञे । तत्पट्टचकोरशीतरश्मिभसीकृतहृच्छ(द)यसुविनयनयशिक्षितशिष्यसमुदयभट्टारकश्रीविनयप्रभसूरिः समजनि । तत्पट्टोदयाचलदिनकरसद्गुणनिकरसच्चारित्रधरसकलविद्यामन्दिरकीर्तिकमलामहिमाकलितमहीमण्डलभट्टारकाखण्डलभ०श्रीश्रीमहिमाप्रभसूरीश्वरा बभूवुः। कवित्तम् शंकर १ खनशशधरन २ अवर सुरतुरग ३ रु सुरगज ४ सेस ५ महेश बयल ६ गिरौ ७ उडुगेन ८ वृषभध्वज ९ इन पर छवि अति धरत करत उज्जल इह जानह पूज्य श्रीमहिमाप्रभसूरिरावरो सुजस प्रमानह कवि कहइ कल्याण तुय अरि अजस उन पट १ उन रिपु २ पुछ उनहि ३ मद उनहि ४ नयन ५ नासा ६ उनहि अलक ७ रु अंबर ८ गलगुनहि ॥९॥ तत्पट्टे द्विसप्ततिसप्तैकमित( १७७२ )वर्षे माघशुक्लपक्षसुदिने श्री श्रीमालि'ज्ञातीयवृद्धशाखालकारहारश्रीवीराहवंशावतंसदोसीश्रीजयतसीसुतदौष्यमुख्यश्रीतेजसीनाम्ना श्रेष्ठिना सकलमहाजन शृङ्गारहारेण सुकलत्रपुत्रपरीवारसहितेन उदारचित्तेन सहस्रशो मिलितमहाजनैश्चतुर्विधसङ्घः सह सुवासनाभिगीयमानेषु धवलमङ्गलेषु, गान्धर्वैर्वाद्यमानेषु वादित्रेषु, भट्टभोजकादिभिः पठ्यमानेषु जिनगुणेषु, दीयमानेषु दानेषु, प्रभावनापूजापुरस्सरबहुद्रव्यव्ययेन कृतपरमोत्सव श्रीभट्टारकश्रीश्रीभावप्रभसूरिः सपरीवारो विजयते । तेन सूरीश्वरेण श्री'उकेश'वंशज्ञातीय'वाणी'गोत्रसाहाश्रीमाण्डणभार्यावालिमदेवीकुक्षिसम्भवेन श्रीजैनधर्मवरसंस्तवनस्खोपज्ञवृत्तिविरचिता शिष्याणामनुग्रहहेतवे चन्द्रनवसप्तैकमित ( १७९१) वर्षमार्गशीर्षशुक्लपक्षाष्टम्यां तिथौ सम्पूर्णा जाता । पण्डितजनैर्विशोधनीया मयि कृपां कृत्वा ॥ इति श्रीकल्याणमन्दिरान्त्यपादसमस्यामयं श्रीजैनधर्मवरसंस्तवनं श्रीभट्टारकश्रीश्रीभावप्रभसूरिणा विरचितं सूत्रतो वृत्तितश्च सम्पूर्णम् ॥ श्रीमदखिलभूपालभालचुम्बितपादपीठविशिष्टनरपालश्रीविक्रमादित्यभूपालसमयातीतभूमिनन्दसप्तचन्द्रप्रमिते (१७९१) वर्षे वैशाखमासे कृष्णपक्षे श्रीम'दणहिल्लपुर पत्तने 'ढंढेर पाटके श्री पूर्णिमा'गच्छे प्रधानशाखायां भट्टारकश्रीभावप्रभसूरिचरणसरोजचश्चरीकायमानशिष्य भाणरत्नेन पुस्तकमिदं लिवीकृतम् । ॥श्री शुभं भवतु ॥ श्रीकल्याणमस्तु ॥ श्रीः॥ तात्पर्यम् शङ्करः, खशशधरौ (आकाशचन्द्रौ), पुनः सुरतुरगः (उच्चैःश्रवाः), सुरगजः (ऐरावणः), शेष(नाग):, महेशवृषभः, गीः (सरस्वती), उडुगणः, वृषभध्वजः (महादेवः) अस्योपरि छविं अत्यन्तं धारयन्ति कुर्वन्ति उजवलं इति जानीवं पूज्यमहिमाप्रभसूरिराजवरस्य सुयशः प्रमिमीत इति कविः कथयति कल्याणं, तब भरेः अपयशः अस्य पटः (गजचर्म), अस्य रिपुः (राहुः), पुच्छकमस्य (उच्चैःश्रवसः), मदोऽस्य (ऐरावणस्य), नयन (शेषस्य), नासिका (महेशवृषभस्य), अस्या अलकानि (सरस्वत्या वेणी) पुनः भम्बरं कालकूटम् (इव)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002969
Book TitleJain Dharmvar Stotra
Original Sutra AuthorBhavprabhsuri
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy