________________
१२२
श्रीजैनधर्मवरस्तोत्रम्
शुद्धात्मदर्शसदनं भरतस्य जज्ञे
शुद्धात्मदर्शनमहो शुभभावयोगात् । इत्युक्तिलेशकथकस्य ममैधि नाथ !
खामी त्वमेव भुवनेऽत्र भवान्तरेऽपि ॥ ४२ ॥ व्याख्या-शुद्धेति । शुद्धात्मदर्शसदनं-निर्मलदर्पणगृहं कर्तृपदम् । अहो इति आश्चर्ये । भरतस्य चक्रिणः शुद्धात्मदर्शनं जज्ञे-जातम् । शुद्धस्य-निर्मलस्य आत्मनो दर्शनं-विलोकनं यस्मिन् तत् , विगलितघनघातित्वेन केवलज्ञानं जातमित्यर्थः । कस्मात् ? शुभभावयोगात् । अथ सम्पूर्णाधिकारत्वात् स्तवनकारः स्वगतं कथयति । हे नाथ ! अत्र भुवने भवान्तरेऽपि मम त्वं खामी एधि-भूयाः । अस्तेः एधि रूपम् । कथंभूतस्य मे ? इति-अमुना प्रकारेण उक्तिलेशकथकस्य जैनधर्मवाक्यलेशप्रभाषकस्येत्यर्थः । अत्र सम्बन्धः
श्रीऋषभमुक्तिगमनानन्तरं श्रीभरतेन 'सिंहनिषद्या'ख्यं प्रासादं मणिमयमेकयोजनायाम त्रिगव्यूतसमुच्छ्रयं चतुर षोडशरत्ननिर्मितप्रतिद्वारतोरणं द्वारेषु मण्डपप्रेक्षामण्डपाखिलाङ्कितं वर्धकिरत्नेन निर्मापितम् । चतुर्विंशत्यहन्मानवर्णादिसहितप्रतिमायुतमिति । पुनः चैत्याद् पहिरेकोनशतं भ्रातॄणां स्तूपान् कारयामास चक्री देवैः प्रतिबोधितः । यतः बालभारते (प० ११, स० १, श्लो० २५-२६)
"मृतयो हि भवानुचारिका, बत जन्तुं भवनित्यबालकम् । गमयत्यमुमङ्कमङ्कतः, कुरुते तन्मयतां मुधा जनः॥१॥ अजनि स्वजनो न कस्य को, न भविष्यत्यथ वा भवभ्रमे ।
जगदेककुटुम्बिनो जनाः, क विपन्ने जनयन्तु तच्छुचम् ॥ २॥" यदुक्तं रघुवंशे (स० ८, श्लो० ८७)
"मरणं प्रकृतिः शरीरिणां, विकृतिर्जीवितमुच्यते बुधैः।
क्षणमप्यवतिष्ठते श्वसन् , यदि जन्तुर्न तु लाभवानसौ ॥ १॥" मुक्तिं गतः प्रभोः शोकं विहाय चक्री भोगान् बुभुजे । ततः स्वामिनिर्वाणवासरात् पश्चपूर्वलक्षेषु गतेषु रत्नदर्पणधाम्नि स्थितश्चक्री तत्र सर्वाङ्गप्रतिविम्बितः, केवलिनो ज्ञाने यथोर्ध्वपुरुषाकृतिलोकः । तदा मुद्रिका करात् पतिता । ततो भूपः स्वरूपं दर्पणभित्तौ निमालयन् पतितमुद्रां नि:श्रीकां तामङ्गुली ददर्श । अहो सधवानां मध्ये विधवामिव गतशोभां विमृश्य सर्वानलङ्कारान् मुमोच चक्री । ततो निःश्रीकं स्वशरीरं समीक्ष्य सर्वमसारतां भावयन् अपूर्वकरणक्रमात् प्राप्तक्षपकश्रेणिः केवलज्ञानं प्राप सः। आसनकम्पेन शीघ्रमिन्द्रस्तत्राययौ । तेनोक्त:-स्वामिन् !
. मरणानि । २ संसारदासिकाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org