________________
श्री भावप्रभसूरिकृतम्
अथ दानादित्रयाणामुपसंहारेण भरतः स्वगत माह -
सूत्रम् —
यत् साधवे वितरणं न कृतं च शीलं व्याघ्रादिभीतिभिदुरं न तपोऽपि तप्तम् । यत् क्रूरकर्मभिदतो जिन ! तैर्विभावेयोऽस्मि चेद् भुवनपावन ! हा हतोऽस्मि ॥ ४० ॥
व्याख्या - यदिति । यत्-यतः मया - भरतेन साधवे वितरणं न कृतं तस्मिन् काले राजपिण्डस्य साधूनामग्राह्यत्वात् । च पुनः मया शीलं तथाविधं न कृतं - न पालितम् । अपि- पुनः मया तपो न तप्तम् । कथंभूतं तपः १ व्याघ्रादिभीतिभिदुरं - व्याघ्र - व्याल ज्वलनादिभयनाशनशीलम् । पुनः यत् मया क्रूरकर्मभित्- क्रूरकर्मभेदकं अनुष्ठानं - निश्चलतया सामायिकादिव्रतं न कृतम् । अतो हेतोः हे जिन ! अहं तैः - प्रसिद्धैः विभावैः - प्रमाद - कषायादिभिः वध्योऽस्मि - मारणीयोऽस्मि चेत् । हे भुवनपावन ! हा इति खेदे । अहं हतोऽस्मि । तेन पूर्व मा हन मा ततो द्वारि स्थिताः शिक्षिताः श्रावकाः सन्ति स्म । इति चत्वारिंशत्तमवृत्तार्थः ॥ ४० ॥
ईई
法 ईद
अथ भावमाश्रित्याह
सूत्रम् —
Jain Education International
रम्येऽत्र दर्पणगृहे वृषभाङ्गजन्मा स्वीयोर्मिकापतनतः परपुद्गलेन ।
शोभां विभाव्य वदतीत्यव देव! रागात्
सीदन्तमय भयदव्यसनाम्बुराशेः ॥ ४१ ॥
व्याख्या - रम्ये इति । रम्ये - मनोहरे अत्र - अस्मिन् दर्पणगृहे वृषभाङ्गजन्मा - भरतचक्री इति वदति । किं कृत्वा । परपुद्गलेन शोभां विभाव्य । कस्मात् ? स्वीयोर्मिकापतनतः - निजमुद्रिकापतनात् । इति किम् ? | हे देव ! हे जिन ! अद्य-साम्प्रतं त्वं मां अव - पाहि । कथंभूतं माम् ! सीदन्तं- विषीदन्तम् । कस्मात् ? रागात् - संसाराभिष्वङ्गात् । कथंभूताद् रागात् : 'भयदव्यसनाम्बुराशेः ' भीतिप्रदष्टानां समुद्रस्तस्मात् । "व्यसनं निष्फलोद्यमे ॥ दैवानिष्टफले श(स) क्तौ स्त्रीपान- मृगयादिषु | पापे विपत्तावशु मे" इति है मानेकार्थः (का० ३, श्लो० १००७-२००८) । इत्येकचत्वारिंशत्तमवृत्तार्थः ॥ ४१ ॥
竑
जैन० तो ० १६
१२१
3 J
For Private & Personal Use Only
www.jainelibrary.org