________________
१२०
श्रीजैनधर्मवरस्तोत्रम् .इत्युक्त्वा मुष्टिमुत्पाव्य चक्रयुतं भवन्तं चूर्णयामि इति ब्रुवन् भरतस्य पार्चे गतोऽथो दव्यौ । काव्यम् (पद्मा० स० १७, श्लो० ३६१-३६३)
"राज्यस्य लोभादमुनेव धिर धिङ्, मयाऽप्यदो भ्रातृवधो विधेयः। न तेन राज्येन ममास्ति काये-'मित्थं मयाऽदः क्रियते यदर्थम् ॥१॥-उप० लोभेन कोपेन विनिर्जितेऽसिन् , जितेऽपि को मे प्रमदो मदो वा । याभ्यां जितोऽसावहमप्यहो चेत्, ताभ्यां जितोऽस्मात् किमु गौरवं तत् ॥२॥-उप० राज्येऽपि लोमं भरतेऽपि कोपं, त्यक्त्वा ततस्तातपथं प्रपद्ये ।
चेद् राज्यलक्ष्मीः परिणामरम्या, तत्साज तातोऽपि कुतस्तदेताम् ॥३॥-इन्द्रवत्रा इदं गदित्वा बाहुबलिः पूर्वोत्पाटितमुष्टिना शिरस्केशान् समूलमुन्मूलयति स । आत्तव्रतस्य तस्योपरि देवैः पुष्पवृष्टिश्चक्रे । कथं लघुवान्धवान् नमामि । तत उत्पादितकेवलस्तातपादान्तं गमिष्यामि । तत्रैव प्रतिमा प्रपन्नः भरतस्तं प्रणम्य स्वस्थानं जगाम । स राजर्षिः प्रावृट्कालेऽपि निष्कम्प आसीत् । काव्यम् (पद्मा० स० १७, श्लो० ३९३,३९४,३९२)
"तस्य वल्लिकुलकुञ्जनिकाये-ऽभूत् खगैः कुतकुलायनिकाये । वैरिणोविहगयोरविरोध-श्छायया दलततेरविरोधः ॥१॥-स्वागता तत्र वल्लिवलयेन सन्कुले, खेलनं खगकुलस्य रक्षया। विभ्रतां फणभृतां फणवजैः, पल्लवद्विगुणता व्यतन्यत ॥२॥-रथो० पावित्र्यं परमर्द्धिबाहुबलिनः साधोः समाराधये
यस्यांहिद्वयसेवया ध्रुवमभूद् दर्भेऽद्भुता पूतता । किं ब्रूमो जगतोऽपि हि व्यवहृतौ तेनाहेतामप्यसो
प्राक् पीठे स्नपनेऽप्यपावनकृतिप्रष्ठः प्रतिष्ठाखभूत् ॥ ३॥"-शार्दूल० इत्येवं वर्षान्ते श्रीऋषभजिनेन प्रेरिताभ्यां ब्राह्मी-सुन्दरीभ्यां तत्रागत्य वने कार्योत्सर्गस्थो बाहुबलिरिति प्रोक्तः-गजारोहणं त्यज, तदा तव केवलज्ञानं भवष्यति ऋषभस्वामिना प्रोक्तमस्तीति स्वस्थानं गते ते । अथ बाहुबलिश्चिन्तयति स-ज्ञातं मया, मान एव गजः । अधुनाऽनेन मृतम् । सर्वान् लघूनपि प्रवज्यावृद्धान् वन्दे । एवं चित्ततोऽभिमानं मुक्त्वा यावत् पादमुदक्षिपत तावत् त्रुटितघनघातिकमा केवलज्ञानं प्राप । अथ साधुवेषं देव्या दत्तं प्राप्य केवलज्ञानी इत्येव ऋषिमण्डलवृत्तौ प्रोक्तमस्तीति समवसरणे गत्वा प्रदक्षिणां दवा तीर्थाय नमः कृत्वा स मुनिः केवलिसभां भेजे । क्रमेण श्रीवृषभेण सम मष्टापद'गिरौ मुक्तिं जगाम । इति बाहुबलिसम्बन्धः । इति एकोनचत्वारिंशत्तमवृत्तार्थः ॥ ३९ ॥
१ पद्मा० ३६१तमे पद्ये तु 'मकार्यमित्थं क्रियते' इति पाठः। २ विहितनीडमन्दिरे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org