________________
श्रीभावप्रभम्नरिकृतम्
११९ रिति जितं बाहुबलिना । अथ तयोर्वाग्युद्धम् भरतेन श्वेडा तेने । ततो बाहुबलिना सिंहारवः कृतः। ततः (पद्मा० स० १७, श्लो० ३०३)
"क्रमेण कार्य भरतेश्वरस्य, श्वेडा खलस्यैव जगाम मैत्री।
बलोदधेहुबलेः पुनः सा, सन्मित्रमैत्रीव परां प्रवृद्धिम् ॥१॥"-उप० शास्त्रीयवादेऽपि बाहुबलिर्जयं प्राप इति । अथ भुजाभ्यां युध्यमानौ तौ बाहुबलिना व्योम्नि भरत उल्लालितः पतन् कृपया धृत इति प्राप्तजयः सौनन्देय इति । अथ मुष्टियुद्धेऽपि बाहुबलेर्विजयो जात इति । अथ दण्डेनापि भूमण्डलान्तरा कण्ठभारं भरतो ममज । इति युद्धैः समगैरमुना जितोऽहं किं नासि चक्रीति वितर्कभाग् । ततो यक्षश्चक्रं चक्रिहस्तेऽर्पितम् । प्रत्ययो जातः । ततो भरतोऽनुजं जगौ । काव्यानि (पद्मा० स० १७, श्लो० ३४०-३४६)
"अद्यापि किञ्चिन्न विनष्टमास्ते, मा चक्रपातात् प्रलयं प्रयाहि । मन्यस्व मन्यस्व ममानुवृत्ति, दत्से कथं भ्रातृवधात् कलङ्कम् ॥१॥-उप० इत्युन्नदन्तं प्रसरन्मदं तं, ज्येष्टार्षभिं बाहुबलिर्वभाषे । किं लोहखण्डेन करस्थितेन, विगर्हसे बाहुबलेबलौघम् १ ॥२॥-उप० कृ(क्ष?)तोऽसि युद्धनिखिलैर्न किञ्चि-चक्रस्य ते सर्पति यस्य दर्पः।। तद् ब्रूहि दण्डेन निहत्य चूर्णी-करोमि नालीदलवद बलेन ॥३॥-उप० प्रोल्लासयाम्यभ्रपथेऽथ वात-क्रान्तार्कतूलावलिलीलया किम् ? । घनेन लोहाधिकरण्युरोऽन्तः, किं वज्रवत क्षोणितले क्षिपामि ? ॥४॥-उप० अरान् सहस्रं विशरारुभावं नयेऽस्य किं वा लवशो विदार्य । करोम्यधिष्ठायकतां प्रपन्नान् , यक्षान् विलक्षान् कणशो विशीर्य ॥ ५॥-उप० अन्यानिव क्षोणिधवाननेन, मामप्यमुं भापयसे किमु त्वम् । लब्धं त्वया स्वस्य बलप्रमाणं, चक्रस्य सम्प्रत्यवलोकय द्राक् ॥६॥-उप० तेनेति चक्रोदितगर्हणाभि- लस्थलस्थभृकुटीकरालः।
चक्री क्रुधा बाहुबलेर्वधार्थ, सौजसा प्रेर्य मुमोच चक्रम् ॥ ७॥"-इन्द्रवज्रा तत् चक्रं गत्वा बाहुबलिनः प्रदक्षिणां दत्त्वा पुनर्भरतहस्ते ययौ । स्वगोत्रजान् न हन्ति चक्रम् । 'बहली'पतिः प्राह स्म-हे भरत! त्वया सन्धा भना। यतो दण्डयुद्धं मुक्त्वा चक्र मुक्तम् । न्यायभ्रष्टस्त्वम् । निर्मले कुले कलङ्को दत्तः । काव्यम्
"एकेन्द्रियस्यापि तेवास्य चक्रिन् !, चक्रस्य मद्रक्षणदक्षिणस्य । .. योऽभूद् विवेकः स न ते कृतोरु-लोभक्रुधो मद्धबद्धबुद्धेः॥१॥"-इन्द्र०
. सिंहनादः । २ सुनन्दाया अपत्यं सौनन्देयः-बाहुबलिः। ३ 'इत्थं नदन्तं' इति क-पाठः। ४ 'श्राक्' इति ख-पाठः। ५ पद्मा० स०१७, ३५८तमे पद्ये 'तवापि' इति पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org