________________
११८
श्री जैनधर्मवरस्तोत्रम्
यदा पट्खण्डं जित्वा 'अयोध्या'यां समेतः श्री भरतोऽष्टानवति भ्रातॄणां दीक्षाऽनन्तरं स्वस्थानप्रवेशाभावे चक्रस्य सुवेगनामानं दूतं बाहुबलेराकारणाय मुमोच । स दूतो 'बहुली' देश'तक्षशिला' नगरीं गत्वा भरतसुखोदन्तमुदित्वा बाहुबलेराह्वानकारणं कथयामास - चेद् भवान् बाहुबली तत्र नागमिष्यति तदा विरोधो भविष्यति । बलिष्ठो भरत इन्द्रेण सत्र सिंहासने तिष्ठति । अस्य सेवां सर्वेऽपि राजानः कुर्वन्ति । अस्य चलितं चतुरङ्गसैन्यं को रुणद्धि ? सर्वैः सर्वत्र चक्री इति गीयते । यदि राज्येन जीवितव्येन कार्यं तदैनं भजस्व इत्युक्ते दूतेन सति बाहुबलिः प्राह—
-उप०
"सदा तदाज्ञां खशिरः किरीटं कुर्वन्ति किं नाम न ते नरेन्द्राः । यस्यानुजः स्फूर्जति वर्यशौर्यो, महामहा बाहुबली बलिष्ठः ॥ १ ॥ - उप० चक्री स चक्रभ्रमतो बभूव, तन्निग्रहाद् विभ्यति ये वराकाः । ते तस्य सेवां रचयन्तु तं तु न कुम्भकारादधिकं करोमि ॥ २ ॥ " - इत्याद्युक्त्वा त्वं दूतोऽवध्य इति मुक्तः । स आगत्य चत्रिणं यथोक्तं जगौ । भरतोऽपि समग्रसैन्यमादाय ‘बहुली’देशं ययौ । चक्रि बाहुबलिनोर्द्वयोरपि सैन्ययोर्युद्धं लग्नम् | अथ महारणे प्रवृत्ते मा भूत् सकललोकक्षय इति विचार्य देवाः श्रीवृषभाज्ञया सैन्ययुग्मं युध्यमानं निवार्य चक्रिणं प्रबोधयामासुः । काव्यानि (पद्मानन्दे स० १७, श्लो० २३०, २३१,२३३,२३५)— "के न पूर्वमभवन् भुवो धंवा, मेदिनी कमपि नेयमन्वगात् । व्रीडमप्यभृत नाग्रभर्तरि, अंशभाजि दधती नवं नवम् ॥ १ ॥ - रथोद्धता नैतया कति पतित्वधारिणो, मारिता बत परेषु लुब्धया ।
रागिणो गुणनिधीन् यच्छया, जीवतोऽपि कति ते यमत्यजन् ॥ २ ॥ - रथो ० वैभवेsपि भुवनस्य भोग्यता - मेति तल्पमितमेव भूतलम् ।
श्रीभरेsपि सति भोज्यताऽधिकं, स्वस्य किञ्चिदपि नोपकारकम् ॥ ३ ॥ - रथो० तद्धुनीवन विलागसागरै, रुद्धमस्ति न कियद्धरातलम् | भूलवोऽयमपि तद्वदुच्यतां, मुच्यतां सह कुलेन विग्रहः ॥ ४ ॥ " - रथो०
इति । हे भरत ! त्वं रणं त्यज । गृहं याहि । पाहि जनान् । तदा भरतेन भणितम् - मम चक्ररत्नं ‘विनीतां’ न प्रविशेत्, द्वितीयं कार्य नहि । ततो देवा आगत्य बाहुबलिं बोधयन्ति । तेनोक्तम्-तातदत्तं राज्यं पालयामि । इमं लोभिनं भरतं न भजामि । अयुध्यमानेन समं नाहं युध्ये ततो विवादमञ्जनार्थं द्वाभ्यां खामिभ्यां दृग् वाग्- भुज- दण्ड- युद्धैर्योध्यं । येन गजादिसंहारो न स्यात् । ततो भरतस्य दृष्टियुगं सङ्कुचितं रविदर्शनात् कैरववत् मिथो विलोकनात्, न बाहुबले
१ इमे पद्ये वर्तेते पद्मानन्दमहाकाव्ये (स०१७ ) यच्छोकाङ्क ७७,९२ । २ पतयः । ३ 'विभाग ' इति क-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org