________________
श्रीभावप्रभसूरिकृतम्
११७ नार्थ चचाल तत्प्रभृति नित्यश इयं आचाम्लानि करोति । तथा स्वामिना प्रव्रजन्ती असौ निवारिता तत्प्रभृति भावसाध्वी जाताऽसौ संसारच्छेदनाय । तदा भरतेन सुन्दरी सम्भाषिता। तदा सुन्दा प्रोक्तम्-एवमेव । तदा चक्री प्राह स-हे सुन्दरि! हे महासत्त्वे ! साधु साधु तव तत्त्वे मतिर्निर्मला रमते, त्वं प्रव्रज्यां प्रपद्यमाना प्रमादतो मया तदा निवारिता। ततो दीक्षामहोत्सवेन चक्रिणा कृतेन सुन्दरी 'अष्टापद'गिरौ समवसृतस्य श्रीऋषभदेवखामिनः समीपे व्रतं गृहीत्वा निर्मलं चारित्रं पालयामास । इति पूर्णः अस्याः सम्बन्धस्तपोऽधिकारेऽपि वाच्यः । यतः
"दातव्यं धन्यवद् दानं, शीलं सीतेव निर्मलम् ।
सुन्दरीवत् तपः कार्य, भावना भरतेशवत् ॥१॥"-अनु० इत्यष्टत्रिंशत्तमवृत्तार्थः ॥ ३८॥
अथ तप आश्रित्याहसूत्रम्
ब्राह्मी सुसुन्दरिकया सह तं वनस्थं __ वयावृताङ्गवरबाहुबलिं बभाषे । गर्जाश्रयं जहिहि कर्मलयं लभस्त्र
दुःखाङ्कुरोद्दलनतत्परतां विधेहि ॥ ३९ ॥ व्याख्या-(ब्राझीति ।) सुसुन्दरिकया सुभगिन्या साध्व्या सह ब्राह्मी तंवल्यावृताङ्गवरवाहुबलिं वभाषे-जगाद । वल्लिभिः आवृतं-आच्छादितं अङ्गं यस्य सः, वरश्चासौ बाहुबलिश्च तम् । कथंभूतं तम् ? वनस्थं-वनवासिनमिति । हे भ्रातः! त्वं गर्जाश्रयं जहिहि-त्यज । गर्जे-गजे आश्रयो-निवासः (यस्य) तं, गजारोहणमित्यर्थः । “गर्जः गज" इति शब्दप्रभेदः (१)। त्वं कर्मलयं लभख-कर्मनाशं प्राप्नुहि । अत एव त्वं दुःखाडरोद्दलनतत्परतां विधेहि-दुःखाकुरस्य उद्दलने-उत्पाटने तत्परतां-आदरत्वं विधेहि-कुरु । कायोत्सर्गस्तपोमध्ये कथितोऽस्ति-"पायच्छित्तं विणओ" इत्यादि ( अतिचारगाथायां सप्तमी) गाथा । अत्र सम्बन्धः
१ त्वया भरतेन। २ वैजयन्तीकोशे भूमिकाण्डे (श्लो० ६०) "स्तम्बेरमो गजो गर्जः इति पाठः । ३ सम्पूर्णा गाथा तच्छाया चैवम्
"पायच्छित्तं विणओ, वेयावच्चं तहेव सज्झाओ ।
झाणं उस्सग्गो वि अ, अभितरओ तवो होइ॥" [प्रायश्चित्तं विनयो वैयावृत्त्यं तथैव स्वाध्यायः । ध्यानमुत्सर्गोऽपि च अभ्यन्तरं तपो भवति ॥]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org