________________
श्रीजैनधर्मवरस्तोत्रम् देवेन केनचिदहं दहने निरस्ता
निस्तारिता च भवतैव हृदि स्थितेन ॥४॥"-वसन्त० रामो मूछा गतः । सीता तु तदैव जयभूषणकेवलिपार्श्वे दीक्षां लात्वा तपस्तप्त्वा मृत्वाऽच्युतेन्द्रो जातः । यदा 'विदेह क्षेत्रे रावणजीवस्तीर्थङ्करो भविष्यति तदा सीताजीवोऽस्य गणधरो भूत्वा मोक्षमेष्यति । अथ कालान्तरेण रामोऽपि व्रतं गृहीत्वा केवली भूत्वा मुक्ति ययौ । इति सम्बन्धलेशः सीतायाः सम्पूर्णः । इति सप्तत्रिंशत्तमवृत्तार्थः ॥ ३७॥
सूत्रम्
आबालगाङ्गसलिलामलशीललीले ! __ हे भग्नि ! सुन्दरि! पुरा चरणे निषिद्धा । प्रोद्यत्तपाः प्रकुरु ते शुचिचित्तवृत्त्या
यस्मात् क्रियाः प्रतिफलन्ति न भावशून्याः ॥३८॥ व्याख्या-आबालेति । हे सुन्दरि! हे भग्नि! सहजे ! आबालगाङ्गसलिलामलशीललीले! बालं अमिव्याप्य इति आबालं गङ्गाया इदं गाङ्गं सलिलं तद्वद् अमला शीललीला यस्याः सा तस्याः सम्बोधनं इति । त्वं तत् चरणं कुरु । कया? शुचिचित्तवृत्त्या-निर्मलचित्तव्यापारेण कृत्वा । कथंभूता त्वं ? पुरा-पूर्व मया-भरतेन चरणे-चारित्रे निषिद्धा । (पुनः) कथंभूता त्वम् ? 'प्रोद्यत्तपाः' प्रोद्यत्-उत्कटं तपो यस्याः सा, षष्टिसहस्राणि कृताचाम्लतपाः । यस्मात्-यतः क्रियाः भावशून्याः न फलन्ति । 'भग्नी भगिनी' इति शब्दप्रभेदे (श्लो० ४१)। अत्र लेशतः सम्बन्धः
भरतः षट्खण्डं साधयित्वा 'अयोध्या' समागतोऽभिषेकोत्सवप्रान्ते सम्भालनार्थ नियुक्तनरैर्निजान् आकारयामास । यतः___षष्टिवर्षसहस्राणि, विरहोत्कण्ठिताशयान् ।
राजा निजानिरैक्षिष्ट, नियुक्तनरयोजितान् ॥१॥"-अनु० ततः दुर्बलां बाहुबलिनः सोदरी हेमन्तम्लाननलिनीमिव निःश्रीकरूपां सुन्दरीं वीक्ष्य क्रोधाध्मातश्चक्री तान् ब्रूते स-रे रे नियुक्ताः! किं मदीयेऽपि गृहे न सूदाः सन्ति ? ओदनानि न सन्ति ? अथवाऽसौ किमपि नाश्नाति ? किं वाऽस्याः किं रोगोऽस्ति ? तर्हि किं वैद्या न सन्ति? भूर्वन्ध्या वर्तते ? ओषधीन प्रसौति ? वा किमसौ यतो दरिद्रपुत्रीवत् कुशामेनां दृष्ट्वाऽहं दुःखितो जातः । तदा तैरधिकारिनरैः प्रोक्तम्-युष्माकं गृहे सर्वमस्ति । परं यदिनादारभ्य यूयं देशसाध
१ चारित्रम्। २ 'भगिनीमपि भनीं च' इति पाठान्तरम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org