SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ श्रीभावप्रभसरिकृतम् फालं जलं घटं चैव, विष कोषश्च पञ्चमः। षष्ठं च चापि (१) तुला दिव्यं, सप्तमं तप्तमाषकम् ॥ २॥-अनु० आज्ञाभङ्गो नृपवधः, स्त्रीवधो वर्णसङ्करः।। परस्त्रीगमनं चौर्य, गर्भ चैव पतिं विना ॥३॥-अनु० बाढवदण्डपारुष्यं, गर्भपातनमेव च । अपराधा दश प्रोक्ता, नीतिशास्त्रविशारदैः॥ ४ ॥"-अनु० पाठान्तरम् "जल१मग्निरर्घटं ३ कोशो ४, विषं ५ माषाश्च ६ तन्दुलाः । । काल८स्तुला ९ सुतस्पर्शो, १० दिव्यानां दशकं जगुः॥५॥"-अनु० इति दिव्याधिकारः । तेषु अग्निदिव्यमत्र रामेण दत्तम् । तदा पञ्चाशद्धनुर्मितचारिकायां खादिराङ्गारपूरितायां तत्र सीता महासती सत्यश्रावणा यथा "मनसि वचसि काये जागरे स्वममार्गे यदि मम पतिभावो राघवादन्यपुंसि । तदिह दह शरीरं मामकं पावकेदं विकृतसुकृतभाजां येन साक्षी त्वमेव ॥१॥"-मालिनी इत्युक्ते "हाकारगर्भितमुखेषु वलीमुखेषु वैमानिकेषु नयनोदकमुत्सृजत्सु । व्योमाङ्गणाक्रमणकौतुकदत्तफाला ___ ज्वालाकलापविकटाऽनलमाविवेश ॥२॥"-वसन्त० देवैः पुष्पवृष्टिविहिता । वह्निर्जलम् । यतः "सीतया दुरपवादभीतया, पावके खतनुराहुतिः कृता । पावकोऽपि जलतां जगाम यत् , तत्र शीलमहिमा विजृम्भितः ॥३॥"-रथोद्धता तत्र जलपूरप्लाव्यमाना लोकाः हे सीते! महासति ! रक्ष रक्ष असानिति कथ्यमानाः । तदा सीतया मण्डलाकारहस्तचालनेन स्तम्भितं जलम् । मण्डलाकारकुण्डजलाशयो जातः । तरत्कमलस्था कमला इव स्वयं जलाशयानिर्गता सीता रामं त्रपाश्याममुखं दृष्ट्वा प्राह "मा गा विषादभवनं भुवनैकवीर! निष्कारणं विगणिता किमियं मयैव । १ वालनेन' इति ख-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002969
Book TitleJain Dharmvar Stotra
Original Sutra AuthorBhavprabhsuri
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy