________________
श्रीजैनधर्मवरस्तोत्रम् विभीषण आह
"मनुष्यौ न मनुष्यौ तौ, वानरास्ते न वानराः।
व्याजेन किमपि छन्नं, देव! दुर्दैवमेव ते ॥ २॥"-अनु० तदियं मुच्यतां निशाचरकुलकालरात्रिमैथिली इति वचसा रुष्टेन रावणेन निष्कासितो विभीषणो रामाय मिलित इति । अथ रावणं प्रति अङ्गद आह
"समं प्रतिज्ञया येन, तीा दुस्तरमर्णवम् ।
वनद्रुमाः सुवेलस्य, भज्यन्ते त्वगुजा इव ॥१॥-अनु० तदा साटोपं रावण आह
"पारावतैः किमयमम्बुनिधिन तीर्णः
क्रान्ताः कथं न कपिभिः कचनापि शैलाः। तद् वेभि दोबलमसौ यदि शौर्यरेखा
___ माविष्करोति करवालकषोपले मे ॥ १॥"-वसन्त० इति दूताङ्गदनाटके (पृ० १०, श्लो० ३४) लौकिकाः पठन्ति___ अथैकविंशतिदिवसानन्तरं हनुमता राममुद्रिकां समर्प्य सीताया भोजनं कारापितम् । ततो मिथो युद्धं जातम् । प्रान्ते रावणेन शक्त्या वक्षसि ताडितो लक्ष्मणो मूर्च्छया पतितः । ततो रात्रावेव हनुमत्प्रमुखैर्विद्याधरैः कन्यासहस्रयुता विशल्या नाम्नी कन्याऽऽनीता। पूर्वकृतपुण्यातिशायिन्या तया स्पर्शितः (स्पृष्टः १) लक्ष्मणः सजो जातः । पर्यणायि ताभिः सह, लौकिकास्तु 'विशल्यां' औषधी पठन्तीति । प्रभाते युद्धे लग्ने हतो लक्ष्मणेन रावणश्चतुर्थ्यां गतः । ततः सीतां लात्वा 'अयोध्या' गतौ राम-लक्ष्मणौ । यतः सीता महासती राज्यशृङ्गारापेणप्रलोभिताऽपि रावणेन न शीलाद् भ्रष्टा। एकदा नष्टचर्यागतेन रामेण गाञ्छिकवचनं श्रुत्वा त्यक्ता । यतः
"न राज्ञा सह मित्रत्वं, न सो निर्विषः क्वचित ।
न कुलं निर्मलं तत्र, स्त्रीजनो यत्र जीवति ॥ १॥-अनु० _ पश्चात् पुत्र-लवाङ्कुशप्रयोगेण सीता आनीता । रामेणोक्तम्-वैदेहि ! एहि, दिव्यं विधेहि, कलङ्क पिधेहि । अथात्र दिव्याधिकारः
"दिव्यं सप्तविधं प्रोक्तं, यथायोग्यं तथा बुधैः। दिव्याधिवासनापूर्व, कर्तव्यं देवसन्निधौ ॥१॥-अनु०
१ नरकभूमौ इति ज्ञेयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org