Book Title: Jain Dharmvar Stotra
Author(s): Bhavprabhsuri, Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 144
________________ श्री भावप्रभसूरिकृतम् अथ दानादित्रयाणामुपसंहारेण भरतः स्वगत माह - सूत्रम् — यत् साधवे वितरणं न कृतं च शीलं व्याघ्रादिभीतिभिदुरं न तपोऽपि तप्तम् । यत् क्रूरकर्मभिदतो जिन ! तैर्विभावेयोऽस्मि चेद् भुवनपावन ! हा हतोऽस्मि ॥ ४० ॥ व्याख्या - यदिति । यत्-यतः मया - भरतेन साधवे वितरणं न कृतं तस्मिन् काले राजपिण्डस्य साधूनामग्राह्यत्वात् । च पुनः मया शीलं तथाविधं न कृतं - न पालितम् । अपि- पुनः मया तपो न तप्तम् । कथंभूतं तपः १ व्याघ्रादिभीतिभिदुरं - व्याघ्र - व्याल ज्वलनादिभयनाशनशीलम् । पुनः यत् मया क्रूरकर्मभित्- क्रूरकर्मभेदकं अनुष्ठानं - निश्चलतया सामायिकादिव्रतं न कृतम् । अतो हेतोः हे जिन ! अहं तैः - प्रसिद्धैः विभावैः - प्रमाद - कषायादिभिः वध्योऽस्मि - मारणीयोऽस्मि चेत् । हे भुवनपावन ! हा इति खेदे । अहं हतोऽस्मि । तेन पूर्व मा हन मा ततो द्वारि स्थिताः शिक्षिताः श्रावकाः सन्ति स्म । इति चत्वारिंशत्तमवृत्तार्थः ॥ ४० ॥ ईई 法 ईद अथ भावमाश्रित्याह सूत्रम् — Jain Education International रम्येऽत्र दर्पणगृहे वृषभाङ्गजन्मा स्वीयोर्मिकापतनतः परपुद्गलेन । शोभां विभाव्य वदतीत्यव देव! रागात् सीदन्तमय भयदव्यसनाम्बुराशेः ॥ ४१ ॥ व्याख्या - रम्ये इति । रम्ये - मनोहरे अत्र - अस्मिन् दर्पणगृहे वृषभाङ्गजन्मा - भरतचक्री इति वदति । किं कृत्वा । परपुद्गलेन शोभां विभाव्य । कस्मात् ? स्वीयोर्मिकापतनतः - निजमुद्रिकापतनात् । इति किम् ? | हे देव ! हे जिन ! अद्य-साम्प्रतं त्वं मां अव - पाहि । कथंभूतं माम् ! सीदन्तं- विषीदन्तम् । कस्मात् ? रागात् - संसाराभिष्वङ्गात् । कथंभूताद् रागात् : 'भयदव्यसनाम्बुराशेः ' भीतिप्रदष्टानां समुद्रस्तस्मात् । "व्यसनं निष्फलोद्यमे ॥ दैवानिष्टफले श(स) क्तौ स्त्रीपान- मृगयादिषु | पापे विपत्तावशु मे" इति है मानेकार्थः (का० ३, श्लो० १००७-२००८) । इत्येकचत्वारिंशत्तमवृत्तार्थः ॥ ४१ ॥ 竑 जैन० तो ० १६ १२१ 3 J For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200