Book Title: Jain Dharmvar Stotra
Author(s): Bhavprabhsuri, Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 140
________________ श्रीभावप्रभसूरिकृतम् ११७ नार्थ चचाल तत्प्रभृति नित्यश इयं आचाम्लानि करोति । तथा स्वामिना प्रव्रजन्ती असौ निवारिता तत्प्रभृति भावसाध्वी जाताऽसौ संसारच्छेदनाय । तदा भरतेन सुन्दरी सम्भाषिता। तदा सुन्दा प्रोक्तम्-एवमेव । तदा चक्री प्राह स-हे सुन्दरि! हे महासत्त्वे ! साधु साधु तव तत्त्वे मतिर्निर्मला रमते, त्वं प्रव्रज्यां प्रपद्यमाना प्रमादतो मया तदा निवारिता। ततो दीक्षामहोत्सवेन चक्रिणा कृतेन सुन्दरी 'अष्टापद'गिरौ समवसृतस्य श्रीऋषभदेवखामिनः समीपे व्रतं गृहीत्वा निर्मलं चारित्रं पालयामास । इति पूर्णः अस्याः सम्बन्धस्तपोऽधिकारेऽपि वाच्यः । यतः "दातव्यं धन्यवद् दानं, शीलं सीतेव निर्मलम् । सुन्दरीवत् तपः कार्य, भावना भरतेशवत् ॥१॥"-अनु० इत्यष्टत्रिंशत्तमवृत्तार्थः ॥ ३८॥ अथ तप आश्रित्याहसूत्रम् ब्राह्मी सुसुन्दरिकया सह तं वनस्थं __ वयावृताङ्गवरबाहुबलिं बभाषे । गर्जाश्रयं जहिहि कर्मलयं लभस्त्र दुःखाङ्कुरोद्दलनतत्परतां विधेहि ॥ ३९ ॥ व्याख्या-(ब्राझीति ।) सुसुन्दरिकया सुभगिन्या साध्व्या सह ब्राह्मी तंवल्यावृताङ्गवरवाहुबलिं वभाषे-जगाद । वल्लिभिः आवृतं-आच्छादितं अङ्गं यस्य सः, वरश्चासौ बाहुबलिश्च तम् । कथंभूतं तम् ? वनस्थं-वनवासिनमिति । हे भ्रातः! त्वं गर्जाश्रयं जहिहि-त्यज । गर्जे-गजे आश्रयो-निवासः (यस्य) तं, गजारोहणमित्यर्थः । “गर्जः गज" इति शब्दप्रभेदः (१)। त्वं कर्मलयं लभख-कर्मनाशं प्राप्नुहि । अत एव त्वं दुःखाडरोद्दलनतत्परतां विधेहि-दुःखाकुरस्य उद्दलने-उत्पाटने तत्परतां-आदरत्वं विधेहि-कुरु । कायोत्सर्गस्तपोमध्ये कथितोऽस्ति-"पायच्छित्तं विणओ" इत्यादि ( अतिचारगाथायां सप्तमी) गाथा । अत्र सम्बन्धः १ त्वया भरतेन। २ वैजयन्तीकोशे भूमिकाण्डे (श्लो० ६०) "स्तम्बेरमो गजो गर्जः इति पाठः । ३ सम्पूर्णा गाथा तच्छाया चैवम् "पायच्छित्तं विणओ, वेयावच्चं तहेव सज्झाओ । झाणं उस्सग्गो वि अ, अभितरओ तवो होइ॥" [प्रायश्चित्तं विनयो वैयावृत्त्यं तथैव स्वाध्यायः । ध्यानमुत्सर्गोऽपि च अभ्यन्तरं तपो भवति ॥] Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200