________________
श्रीजैनधर्मवरस्तोत्रम् कथंभूताः पदार्थाः ? 'प्रोद्यत्प्रबन्धगतयः' प्रोद्यत्सु-उत्कटेषु प्रबन्धेषु-वीररसादिमयेषु गतिःगमनं येषां ते इति । ते के पदार्थाः ? तानाह-सीताहतिः रावणेन सीतायाः हरणं कृतम्, तदनन्तरं रामचन्द्रेण जलधिलङ्घनं कृतम् , ततश्च रावणेन सह आहवः-सङ्ग्रामः कृतः, ततो रणेन रक्षसः-रावणस्य वधः कृतः जातः । रक्षःशब्दो नपुंसकः हसान्तः। ततः प्रतिह(कृ?)तिःसीता गृहं नीता। ततो लोकापवादात् सीता अटव्यां मोचिता। ततः सीतायाः दिव्यं दत्तम् । तेन सीतया ज्वलनप्रवेशः कृतः। ततो विमलशीलतया सीता पुण्या-पवित्रा जाता अत्रापि पुण्यशब्दो योज्य इति । सीताशब्दो दन्ततालव्य इति ॥ अत्र लेशतः सम्बन्धमाह_ 'अयोध्या'यां दशरथपुत्रौ राम-लक्ष्मणौ स्तः। पद्मन जनकनृपपुत्री जानकी परिणीता कैकेयीराज्ञीवरव्यतिकरात् सीतया सह राम-लक्ष्मणौ वनं गतौ । सौमित्रिणा वंशजाला न्तरस्थितो विद्यां साधयन् शम्बूकनामा सूर्पणखापुत्रो हतः क्रीडताऽज्ञानतः। तत्रागतय सूर्पणखया दृष्टो रामः। रूपरञ्जितया कामातुरया भोगार्थ याचितः । तेन तिरस्कृता । इतः शम्बूकनिमित्तं लक्ष्मणस्य रामेण सह सिंहनादो मया सङ्कटे विधेय इति कृतसङ्केतर शम्बूकपक्षीयविद्याधरैः सह युद्धं लग्नं वर्तते स । तया चन्द्रणखया गत्वा रावणाने सीत रूपं वर्णितम् । तस्य मनश्चलितम् । यतः
"द्विजराजमुखी मृगराजकटिः, तरुराजविराजितजङ्घतटी।
यदि सा वनिता हृदये वसिता, क तपः क जपः क समाधिविधिः ॥१॥"-तोटकम् अथ बालभारते (आदिपर्वणि स० १, श्लो० ३६ ) अपि"अभ्यस्य शश्वजघने धनेऽस्याः, सौभाग्यसिन्धोः पुलिने पुलिन्दः।
वेध्यं शराणां कुरुते न कस्य, चलं च सूक्ष्मं च मनो मनोभूः १ ॥१॥"-उप० स पौलस्त्यस्तत्र गत्वा मत्रविद्याविज्ञाततत्सिहनादसङ्केतः स्वयं सिंहनादकरणच्छलेन तदनु तगमने रामे मुनिप्रतिबोधितं जातिस्मरणवन्तं सीतासमीपस्थं रक्षार्थ युध्यमानं जटायुनाम पक्षिणं हत्वा गृहीत्वा सीतां 'लङ्कां' समाययौ । लौकिकास्तु
"न भूतपूर्व(वो) न च केन दृष्टो, हैमः (हेग्नः ?) कुरङ्गो न कदापि वार्ता ।
तथापि तृष्णा रघुनन्दनस्य, विनाशकाले विपरीतबुद्धिः॥१॥"-उपेन्द्रवत्रा इति सौवर्णमृगच्छलं कथयन्ति । ततो ज्ञातव्यतिकरौ राम-लक्ष्मणौ पुण्यवशाद् वानरविद्या सुग्रीवादिमिर्मिलितैः समुद्र-सेतुनामानौ नृपौ रावणसेवको सागरोपकण्ठं जित्वा । विद्याबलेन 'लङ्का'समीपमाजग्मतुः । अत्र लौकिकाः-सागरमध्ये पाषाणैर्बद्धपालिः वान पशव एव । यतः
१ रामचन्द्रेण । २ तमनु-लक्षीकृत्य कृतं गमनं येन स तस्मिन् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org