________________
श्रीभावप्रभसूरिकृतम्
कालोऽयं जलदागमस्तदपि यः कामं जिगायादरात्
तं वन्दे युवतिप्रबोधकुशलं श्रीस्थूलभद्रं मुनिम् ॥ ४ ॥ - शार्दूल० रे काम ! वामनयना तव मुख्यमत्रं
वीरा वसन्त-पिक - पञ्चम- चन्द्रमुख्याः ।
त्वत्सेवका हरि - विरश्चि- महेश्वराद्या
हा हा हताश ! मुनिनाऽपि कथं हृतस्त्वम् ॥ ५ ॥ - वसन्त० श्रीनन्दिषेण रथनेमिमुनीश्वराऽऽर्द्र
बुद्ध्या त्वया मदन ! रे मुनिरेष दृष्टः ।
ज्ञातं न नेमि - मुनिजम्बु- सुदर्शनानां
Jain Education International
तुर्यो भविष्यति निहत्य रणाङ्गणे माम् || ६ || - वसन्त०
इति लेशमात्रस्थूलभद्रकथानकम् || तथा अभयाह्वया राझ्या भोगार्थं याचितोऽचलित
उपसर्गितो राज्ञा शूलिकायामारोपितो रत्नसिंहासनं जातं सुदर्शन श्रेष्ठिनः । इति पञ्चत्रिंशत्तमवृत्तार्थः ॥ ३५ ॥
सूत्रम् —
竑 ॐ
आई 32
ब्राह्म्यादिका विमलशीलविभूषणाढ्याः
सत्यो हि सन्ति बहवो भवितार एव । तासां तु नामजपनेन जिनेश ! पूतो
जातो निकेतनमहं मथिताश ! यानाम् ॥ ३६ ॥
व्याख्या - ब्राह्म्यादिका इत्यादि । हि-निश्चितं हे जिनेश ! ब्राह्म्यादिकाः सत्यः बहवः सन्ति । पुनः सत्यः बहवो भवितारः - भविष्यन्त्येव । कथंभूताः सत्यः : विमलशीलमेव भूषणं तेन आढ्या :- संयुक्ताः । हे जिनेश ! हे 'मथिताश " मथिता - हता आशा - अभिलाषो येन, हे निरभिलाष ! | तुः अवधारणे । अहं भरतः तासां सतीनां नामजपनेन पूतः - पवित्रो जातः । कथंभूतोऽहं ? यानां - लक्ष्मीनां निकेतनं गृहम् । “लक्ष्मीः पद्मा रमा या सा" इत्यादि हैम: (का० २, श्लो० १४० ) । यतः ( श्रीधर्मसूरिकृते मङ्गलस्तोत्रे श्लो० १३ ) —
"ब्राह्मी चन्दनबालिका भगवती राजीमती द्रौपदी
कौशल्या सुमृगावती च सुलसा सीता सुभद्रा शिवा । कुन्ती शीलवती नलस्य दयिता चूला प्रभावत्यपि पद्मावत्यपि सुन्दरी दिनमुखे कुर्वन्तु वो मङ्गलम् ॥ १ ॥
१ 'जलदाविलस्तदपि' इति पाठः श्रीहीरालाल हंसराजेत्यैभिर्मुद्रिते स्थूलभद्रचरित्रे । चरित्रे (दे. का. पु. जै. ) ५५८-५५९ तमे पद्ये ।
१०९
For Private & Personal Use Only
२-३ स्थूलभद्र
www.jainelibrary.org