________________
१०८
श्रीजैनधर्मवरस्तोत्रम् गृहे चित्रशालायां षड्ससरसभोजनकः सद्ब्रह्मचर्यधारकः कामविकारनिवारका स्थितवान् मुनिः सः। एतनिशम्य कश्चिद् विप्रः प्राह
"विश्वामित्र-पराशरप्रभृतयो 'ये चाम्बुपत्राशना
स्तेऽपि स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं गताः । आहारं सघृतं पयोदधियुतं भुंञ्जन्ति ये मानवा
स्तेषामिन्द्रियनिग्रुहः कथमहो दम्भः समालोक्यताम् ॥१॥"-शार्दूल. सरिराह
"सिंहो बली द्विरदशूकरमांसभोजी
संवत्सरेण रतिमेति किलैकवारम् । पारावतः खरशिलाकणभोजनोऽपि
कामी भवत्यनुदिनं वद कोऽत्र हेतुः ? ॥१॥-वसन्त० इति ।
स स्थूलभद्रोऽखण्डशीललीलः तां कोशां प्रबोध्य गुरुसमीपमागतः सन् गुरुभिर्दुष्करकारक इति सङ्घसमक्षं प्रोचे । तद्वचसः पूर्व समागताः सिंहगुहा-बिल-कूपकाष्ठस्थायिनो मुनयस्त्रयः । तेषु सिंहगुहावासी मुनिर्मत्सरेण गुरुणा निवार्यमाणोऽपि द्वितीयचतुर्मास्यां कोशागृहे गतः। दृष्ट्वा च तां दिव्यरूपां चलचित्ततया 'नेपाल'देशानायितरत्नकम्बलं क्षाले क्षिप्त्वा प्रतिबोधितः सन् आगत उवाच-युक्तं दुष्करदुष्करकारक इति । गुरुभिरुक्तम्यतः
"सर सिंहगुहागेहं, दृष्टिदृष्टिविषाहिभूः। चित्रशाला कूपपट्टः, कोशायात्रिष्वसौ स्थितः॥१॥-अनु० 'गिरौ गुहायां विजने वनान्तरे, वासं श्रयन्तो वशिनः सहस्रशः। हर्येऽतिरम्ये युवतीजनान्तिके, वशी स एकः शकडालनन्दनः ॥२॥-इन्द्रवंशा योज्यौ प्रविष्टोऽपि हि नैव दग्ध-श्छिन्नो न खड्गाग्रग(कृ?)तप्रचारः। कृष्णाहिरन्धेऽप्युषितो न दष्टो, नाक्तोऽञ्जनागारनिवास्यहो यः ॥३॥-इन्द्रवत्रा 'वेश्या रागवती सदा तदनुगा षड्भी रसैर्भोजनं
शुभं धाम मनोहरं वपुरहो नव्यो वयःसङ्गमः ।
'वाताम्बु०', २ 'शाल्यन्नं स०', ३ 'ये भुजते मानवा'-, ४ 'ग्रहो यदि भवेद् विन्ध्यस्तरेत् सागरे' इति पाठभिन्नता सुभाषित०(पृ. २६४)। ५'तद्वचसा च पूर्व' इति ख-पाठः। ६-६ श्रीजयानन्दसूरिकृते स्थूलभद्रचरित्रे ५५०तमादि५५२तमपर्यन्तानि पद्याति (दे. ला, जै.)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org