________________
श्रीभावप्रभसूरिकृतम्
१०७ अत्र दृष्टान्त:स्त्रिया कृतोपसर्गरणझणत्प्रविष्टनूपुरपादोपलसितसाधुवत पालनीयमिति । तथा चतसृभिः स्त्रीभिर्यामिनीयामचतुष्कमुपसर्गितोऽपि मुनिन चलितः । ततस्ताः स्त्रियोऽपि प्रभाते गृहीतशीला अभवन् इति । तथा एकदा सभास्थितेन श्रीसिद्धराजजयसिंहदेवेन वन्दितो हेमाचार्यो धमलाभं प्रोक्तवान् । तथा भूपेन धर्मलाभस्वार्थः पृष्टः सूरिराह
"दीर्घायुभव धार्मिको भव भव प्रौढप्रतापोद्धतो
विद्या-विक्रम-वृत्त-वित्त-विनयालङ्कारयुक्तो भव । इत्याद्याः स्फुरदाशिषः श्रुतिसुखाः सत्या भवन्ति ध्रुवं
यसाद् विस्मयकारणं स भवतु श्रीधर्मलाभः श्रिये ॥१॥-शार्दूल. दुर्वारा वारणेन्द्रा जितपवनजवा वाजिनः स्यन्दनौघा
लीलावत्यो युवत्यः प्रकटितचमरैर्भूषिता राज्यलक्ष्मीः। तुङ्गं श्वेतातपत्रं चतुरुदधितटीसङ्कटा मेदिनी च
प्राप्यन्ते यत्प्रभावात् त्रिभुवनविजयी सोऽस्तु वो धर्मलाभः ॥२॥-नग्० सकलकुशलवल्लीपुष्करावर्तमेघो
दुरिततिमिरभानुः कल्पवृक्षोपमानः। भवजलनिधिपोतः सर्वसम्पत्तिहेतुः
स भवतु सततं वः श्रेयसे धर्मलाभः ॥३॥-मालिनी कल्पद्रुचिन्तामणिकामधेनु-सुस्वामिमुख्याः सुखहेतवोऽमी। श्रयन्ति यस्य प्रतिहस्तकत्वं, धर्मः स वो यच्छतु वाञ्छितानि ॥४॥-उप० लक्ष्मीर्वेश्मनि भारती च वदने शौर्य च दोष्णोर्युगे
त्यागं पाणितले सुधीश्च हृदये सौभाग्यशोभा तनौ । कीर्तिर्दिक्षु सपक्षता गुरुजने यसाद् भवेदङ्गिनां
सोऽयं सिद्धिफलप्रदाननिपुणः श्रीधर्मलाभोऽस्तु पः॥५॥-शार्दूल. पुण्डरीको ददौ पूर्व, चक्रिणे भरतादये(य यम् ?) । गौतमः श्रेणिकस्यापि, धर्मलाभः स वः श्रिये ॥ ६ ॥-अनु० धर्मकल्पद्रुमः श्रीमान् , स वो यच्छतु वाञ्छितम् ।
जागर्ति यस्य सेकाय, सत्कर्मश्रेणिसारणिः ॥७॥"-अनु० ततः पुनर्भूपेन श्रीहेमाचार्यः प्रोक्तः भवद्भिर्व्यवहारिसभायां साम्प्रतं कस्य व्याख्यानं क्रियते । सूरिणोक्तम्-सरसनवरसचित्रं श्रीस्थूलभद्रयतीन्द्रचरित्रं कर्मलवित्रं पवित्रं व्याख्यायते येन पूर्व द्वादश वर्षाणि कोशा वेश्या विलसिता । पश्चाद् व्रतमादाय गुर्वाज्ञया तस्सा एव
१ 'सभ्या' इति ख-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org