________________
१०६
श्रीजैनधर्मवरस्तोत्रम् "चैत्रमास्यां पूर्णमास्यां, मासान्ते केवलं ततः। प्रथमं पुण्डरीकस्य, श्रमणानां ततोऽभवत् ॥१॥"-अनु० शुक्लध्यानाधिरोहेण, क्षीणेष्वखिलकर्मसु । प्रापत् तपखिकोटीभिः, पुण्डरीकः परं पदम् ॥२॥-अनु० खर्गादागत्य गीर्वाणा, निर्वाणाप्तिमहोत्सवम् । क्षणात् तेषां महर्षीणां, मरुदेव्या इव व्यधुः ॥३॥-अनु० तीर्थकृत् प्रथमः स्वामी, यथा श्रीवृषभस्तथा । तदानीं प्रथमं तीर्थ, जज्ञे 'शत्रुञ्जयो' गिरिः॥४॥-अनु० सिद्धो महर्षिरेकोपि, तीर्थतां स्थानमानयेत् । महर्षिकोटयो यत्र, किं पुनः सिद्धिमव्रजन् ? ॥५॥-अनु० 'शत्रुञ्जयो'ऽद्रिषु सिद्धि-क्षेत्रत्वान्मुकुटं स्फुटम् । नामारूपमयं चक्रवर्ती चैत्यमकारयत् ॥ ६॥-अनु० प्रभुबिम्बं पुण्डरीक-युक्तं कृतं तदन्तरा ।
आत्मानमिव विश्वान्त-रात्मानं च चि(स्थि)रं व्यधात् ॥७॥"-अनु० इति पद्मानन्दमहाकाव्ये (स० १८, श्लो०१७३-१७९) वेणिकृपाणनामाऽमरचन्द्रः। इति भरतचक्री सङ्घ-पतितिलकधारकः चैत्यकारकः सङ्घवात्सल्यनिर्मापकः पुण्यवान् कथितः । इत्येवंविधोऽपि यो भवति स मुक्तिगामी भवतीति स्थितम् । इति चतुस्त्रिंशत्तमवृत्तार्थः ॥ ३४॥
अथ शीलमाश्रित्याहसूत्रम्
शीलं कलङ्कतिमिरावलिहेलिकेलि
विस्तीर्णविश्ववलये कृतकीर्तिखेलम् । मर्यो दधाति हृदि यः प्रवरस्य तस्य
किं वा विपद्विषधरी सविधं समेति ? ॥३५॥ ध्याख्या-(शीलमिति)। यो मो-मनुष्यः हृदि-हृदये शीलं-मैथुनपरिहाररूपं सद्ब्रह्मचर्य दधाति-धरति । किंविशिष्टं शीलम् ? 'कलङ्कतिमिरावलिहेलिकेलि' कलङ्का एव तिमिराणिअन्धकाराणि तेषां आवलिः-श्रेणिः तस्यां हेले:-सूर्यस्य केलिरिव केलिर्यस्य तत, तद्विनाशकत्वात् । पुनः किंविशिष्टम् ? विस्तीर्णे-विपुले विश्ववलये-भुवनमण्डले 'कृतकीर्तिखेलं' कृता कीर्त्याः खेला-क्रीडा येन तत् । वा पक्षान्तरे । विपद् एव विषधरी-सर्पिणी तस्य प्रवरस्य पुरुषस्य सविधं-समीपं किं समेति-आगच्छति ? । अपि तु न आगच्छति ।।
१ चैने मासि पूर्णि०', २ 'नानारत्नमयम्', ३ 'च स्थिरं' इति पागन्तराणि पद्मा०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org