________________
श्रीभावप्रभसरिकृतम् तैरात्मा सुपवित्रितो निजकुलं तैर्निर्मलं निर्मित
तैः संसारमहान्धकूपपततां हस्तावलम्बो ददे । लब्धं जन्मफलं कृतं च कुगतेद्वारैकसंरोधनं __ ये 'शत्रुञ्जय'मुख्यतीर्थनिवहे यात्रासु क्लुप्तोद्यमाः॥३॥-शार्दूल० तैश्चन्द्रे लिखितं स्वनाम विशदं धात्री पवित्रीकृता
ते वन्द्याः कृतिनः सतां सुकृतिनो वंशस्य ते भूषणम् । ते जीवन्ति जयन्ति भूरिविभवास्ते श्रेयसां मन्दिरं
सर्वाङ्गैरपि कुर्वते विधिपरा ये तीर्थयात्रामिमाम् ॥४॥-शार्दूल. कल्पद्रुमस्तस्य गृहेऽवतीर्ण-श्चिन्तामणिस्तस्य करे लुलोठ ।
त्रैलोक्यलक्ष्मीरपि तं वृणीते, गेहाङ्गणं यस्य पुनाति सङ्घः ॥५॥"-इन्द्र० अत्र प्रथमं भरतस्यैव कथानकम् । यतःपूर्व वृषभजिनमुखात् सकलधर्मकार्य श्रुत्वा पुनः निजनिश्चयार्थ स्वमुखेन भरतः प्रभोरग्रे कथयामास इति सर्वत्र ज्ञेयम् । एकदा भरतचक्री 'अष्टापदे' श्रीऋषभं प्रणम्याग्रे स्थितवान् । देशनाऽन्तेऽष्टानवतिभ्रातृन् निभाल्य चिन्तितम्-अहो! महाव्रतधरा एते । मया दुष्टं कृतम् , यत एते भोगात् त्याजिताः । ततो भरतो भोगाय न्यमत्रयत भक्तिवशतः, तदा भगवान् ब्रूते स तम्-भो भरत! तव भ्रातरस्त्यक्तान् भोगान् पुनर्मुखश्लेष्मवत् न गृह्णन्ति, तदा भरत आहारार्थं तान् निमत्रयामास । तदापि प्रभुणा निषिद्धः-राजपिण्डादिमुनीनांन कल्पते तदास विषादवान् । तत इन्द्रपृच्छापूर्वकं पञ्चप्रकारावग्रहकथने स्वस्थीभूतो भरतो भगवन्तं बभाषे-आनीतेन भक्तपानेन मयाऽधुना किं क्रियते ? भगवता (शक्रेण ?) अभाणि-श्राद्धेभ्यो देयं तत् । गृहमागत्य तथैव चक्री कृतवान् । श्राद्धेभ्य उक्तम्-भवन्तो भोजनं कृत्वा मम गृहाग्रे स्थिताः "जितो भवान् भयं भूरि, ततो मा हन मा हन" (पद्मा० स० १८, श्लो० ११०) इति पदद्वयं वारंवारं पठनीयमिति । तन्निशम्य चक्री रहास्थितश्चिन्तयति स
"जितः कैरहमा ज्ञातं, कषायैर्मे कुतो भयम् । एतेभ्य एव तदहं, मा हन्यां देहधारिणः ॥१॥-अनु० धिर धिङ् मे धर्मवैमुख्यं, हा हा संसारसक्तता। ही ही प्रमादमित्रत्वं, ह ह हा विषयाग्रहः ॥२॥" अनु०
–(पद्मा० स० १८, श्लो० ११२, ११४) तदा श्राद्धानां पठनार्थ भरतेन जिनस्तुतियतिश्राद्धधर्मकर्माधिकारमया आर्या वेदाः कृताः । एकदा प्रभुः 'शत्रुञ्जय'गिरिमाययौ । पुण्डरीकाय प्रोक्तम्-त्वं यतिकोटीयुतोऽत्रैव तिष्ठ, 'सिद्धक्षेत्र'प्रभावात् तव केवलज्ञानं भविष्यति । तेन तथैव कृतम् । सिद्धः पुण्डरीको यतिको. टीभिः सह । श्लोकः
१ आ इति स्मरणे। जैन खो०१४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org