________________
१४
श्रीजैनधर्मवरस्तोत्रम् सञ्चय इति नाम्ना एकया घटिकया क्रोशशतं व्रजति । तत इतः स्थानानंष्ट्वा भवदीयस्थानं गम्यते । इत्युक्त्वा उत्तालतया सम्भ्रमेण सञ्चयदीर्घग्रीवं विमुच्य टाकं सज्जीकृत्य रत्नादिबहुमूल्यसूक्ष्मवस्तूनि गृहीला तमारुह्य तौ दम्पती पलायनं चक्राते । कञ्चुकिना तजनकाय ज्ञापितम् । राक्षसोऽपि सञ्चयं स्थितं विलोक्य हर्षितोऽस्याग्रे क यास्थतीति विचिन्त्य सद्य एनमारुह्य तन्मार्गमनुययौ । इतश्च कुमार्या पश्चादवलोकनेन दृष्टो जनक आगतो विभीतम् , भो भर्तः ! अमुं वटं शीघ्र समारोह । तेनापि तथैव कृतम् । ततो मतिमत्या कमलया प्रोक्तम्-भो तात ! अत्र एहि एहि । मया पलायमानः पुरुषः सादरं रुद्धोऽस्ति । (तत्) श्रुत्वा हृष्टोऽसौ वटाधस्तादागत्य सञ्चयक्रमेलकरज्जुं पुत्र्यै दत्वा वैश्रमणालयमारुरोह । राक्षसो यावदुत्पतन् हरेः शाखायां ग्रहणार्थमायाति, तावत् हरिरन्यशाखां याति । एवं तद्भीत्या शाखान्तरं गच्छन् यस्याः शाखाया अधः सञ्चयोऽस्ति तां शाखामधितिष्ठति । तदुपा(त्पा)तं च ऊर्ध्वदृष्ट्या विलोकयति हरिः। तदा कुमार्या प्रोक्तम्-भो जीवितेश ! मूढ इव किं विलोकयसि ? अधुना टाकसञ्चयौ मिलितौ । आवयोः कार्यसिद्धिर्जाता । शाखात उत्प्लुत्य सञ्चयमारोह । तेनापि तथैव कृतम् । ततः स्थानात् ताभ्यां तावुष्ट्रौ वाहितौ । स्तोकमध्वानं गताभ्यां तावत् सुरभिप्रफुल्लपुष्पपल्लवादिसमृद्धं शतशः सहस्रांशुकिरणपुजैरिद्धमिव दीप्यमानं वनं ददृशे । ततोऽग्रे गच्छद्यामेकतो हस्तिन एकतो व्याघ्रा मृगाः शशकाः शूकरा जाहका अहयो नकुला मूषका मार्जाराः पक्षिण इत्याद्यनेकजीवाः सस्नेहं सादरं संमिलिता उपशान्ता गतवैरा दत्तकर्णास्तिष्ठन्तो दृष्टाः । तदनन्तरं चञ्चत्काञ्चनकमलाधिष्ठितः प्राप्तकेवलज्ञानः सुरासुरनरसेव्यमानः प्रधानधर्मोपदेशं ददानः सुसाधुर्दश्यते स । ततः प्राप्तचमत्कारौ तौ झटिति मैयाभ्यामवतीर्य सादरं तं नत्वोपविष्टौ । केवली धर्मोपदेशं दिदेश । यतः
"छिन्नमूलो यथा वृक्षो, गतशीर्षो यथा भटः । धर्महीनो धनी तावत्, कियत्कालं प्रशस्यते ? ॥१॥-अनु० यस्य धर्मविहीनानि, दिनान्यायान्ति यान्ति च । स लोहकारभनेव, श्वसन्नपि न जीवति ॥ २॥-अनु० नाच्छादयति कौपिनं, न दंशमसकापहम् ।
शुनः पुच्छमिव व्यर्थ, पाण्डित्यं धर्मवर्जितम् ॥३॥"-अनु० पुनः पापण्डिभिः प्रकल्पिते धर्मे परमार्थतः शून्ये जगत्पतिस्तं वरीवृतीति । यथा वन्ध्यापुत्रो मरुमरीचिकाजलस्रोतगात्रो गगनारविन्द विनिर्मितमालाधरः शशकशृङ्गनिर्मापितधन्वाऽलङ्कतहस्तो याति । काव्यम्
१ उष्ट्रम्. २ वटम्. ३ 'जाहको गात्रसङ्कोची' इति हैमः (का. १, श्लो०३६८), 'सेलो' इति लोके । ४ उष्ट्राभ्याम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org