________________
१ तात्पर्यम् -
श्रीभावप्रभसूरिकृतम्
"मुखं पद्मदलाकारं, वाचा चन्दनशीतला ।
हृदयं कर्तरीयुक्तं, त्रिविधं धूर्तलक्षणम् ॥ १ ॥ - अनु०
Jain Education International
धूंता हुई सुलक्ष (ख)णा, वेश्या (सा) हुइ सलज्जा । बारां पाणी शीअलां, बहुफल फलै अकज || २ ||" - अनु०
स्वस्य कार्यं कृत्वा मां दुर्दशां प्रापयिष्यति । ततो मौनालम्बितो गमनं कुर्वाणः । ततस्तापसेन सैंहीं तनुं विकुर्व्य स गले ग्रस्तः, ततः स महामत्रं पपाठ । तत्क्षणमेनं मुक्त्वा स पलायाञ्चक्रे । ततो हरिर्निर्विघ्नीभवन् पन्थानं जगाम । इत उल्लालितशुण्डादण्डं प्रचण्डहस्तिनं समायान्तं वीक्ष्य नमस्कारमन्त्रेण दूरीचकार । ततो महाभोगभोगिनं क्रोधकरालं जङ्गमयमकरवालमिवाप - तन्तं समीक्ष्य परमेष्ठिध्यानेन पुच्छेन गृहीत्वा दूरमुचिक्षेप । एवं तस्य हरेर्गच्छतः सतोऽपराहे एकं 'कनकपुर' मागतम् । स तत्र सुवर्णसोपानपङ्किविराजितं स्वच्छजलपरिपूर्ण गुञ्जन्मधुकर निकरसेव्यमान कमलं सरोवरं दृष्ट्वा प्रौढपालिपादपालिच्छायायां स्थितः सर्वतः शोभां पश्यति स्म । नगरस्य स्वर्णमयो वप्रः, रत्नमयानि कपिशीर्षाणि, सप्तभूमाः प्रासादा गवाक्षादिशोभमानाः, देवखरूपा नराः, देवीसमाना नार्यः, शिरसा धृतस्वर्णकुम्भाः स्तननिर्जितहस्तिकुम्भाः पानीयहारिण्य इत्यादीनि विलोक्य मनसि विचारयति - अहो ! यद्यत्र नागमिष्यं, तदा लोचनवञ्चितो भविष्यम्; परं न ज्ञायते यन्मदीयोपाध्यायेनायं मार्गों निषिद्धः । इतश्च भूपतेरमात्यो बहुपरीवारसहितः स्त्रीभिर्धवलमङ्गलं गीयमान कारयंस्तत्रागत्य हरेर्हारिललाटपट्टे कौङ्कुमं तिलकं विधाय है नररत्न ! अस्मदीय नरसिंहनृपस्य कमलाभिधानायाः कुमार्यास्त्वया सह विवाहो मेलितः, गम्यतां नृपौकसि । इत्युदित्वा हरिमादाय नृपान्तःपुरे कुमारीसमीपे निधाय लग्नवेलायां पाणिग्रहणं भविष्यतीत्युक्त्वा च स्वस्थानं जग्मिवान् । हरिः कमलां कमलामिव सुरूपां मृगीदृशं विलोक्य जहर्ष । अथ कमला ग्राह-भोऽमररत्न ! किं स्वस्थचित्तस्तिष्ठसि ? यतो मदीयजनको मानवभक्षको राक्षसोऽस्ति तत ईदृग्विधानेन मायामुद्भाव्य त्वमत्रानीतोऽसि, रात्रेः पश्चिमयामे शेषे सोऽत्रागत्य त्वद्भक्षणं करिष्यति । इति निशम्य किंकर्तव्यतामूढः स समजायत परं परमेष्ठिमत्रस्मरणेन धीरत्वं दधार । ततस्तया पुनरभाणि - अहं यौवनस्था वर्ते, मया त्वमेव भर्ता हृदि धृतः, अतो मा भैषीः । तेनाप्युक्तम् - मम जीवितगतिस्त्वमेवासि । ततो निशि कुमार्या तदानीं संक्षेपतो विवाहसामग्रीं प्रच्छन्नं कृत्वा स परिणीतः । उक्तं च-हे भर्तः ! मम जनकस्य द्वौ क्रमेलकौ स्तः । तयोर्मध्ये एक उष्ट्रः टाक इति नाम्ना यामार्धेन क्रोशशतं गच्छति, अन्यस्तूष्ट्रः
धूर्ता भवन्ति शतलक्षणा वेश्या भवति सलज्जा ।
क्षाराणि पानीयानि शीतलानि बहुफलैः फलन्ति भकार्या: (वृक्षाः) ॥
१३
For Private & Personal Use Only
www.jainelibrary.org