________________
श्रीजैनधर्मवरस्तोत्रम् देहल्यामुपवेशिनी विकथिनी दन्तैः षटत्कारिणी
निःशौचांहिविकर्तिनी परिगृहस्थाणुश्च दुर्गेहिनी ॥१॥"-शार्दूल. इति । तथा अपत्येषु स्नेहहीनाभ्यां पितृभ्यां किम् ? । तदा हरिणा प्रोक्तम्-तत्र गत्वाऽवश्यं मया समागन्तव्यमत्रेति कथयित्वा गमनाय सज्जो बभूव । तदा तेनोक्तम्-हे हरे ! हे पुत्र ! त्वं दक्षिणस्यां दिशि उत्तरस्यां दिशि च मार्ग मा गाः, विषमः पन्था अस्ति, तयोर्विचालमार्ग गच्छेः। ततः शिक्षां गृहीत्वा हरिश्चचाल पन्थानम् । दैवादुत्तरस्यां दिशि सन्ध्यायामेकं ग्राम ययौ । तत्रत्येन मुर्खेण केनचित् पृष्टः-कस्त्वम् ? । तेनोचे-पठितशास्त्रो विप्रोऽसि । तदा स तं प्राह-कण्टकमर्दकस्य नाम निगदतु । तेन पुस्तकं प्रविलोकितम् । तस्यार्थो न लब्धः । चिन्तितं च धिङ् मां खण्डपण्डितम् । यतः
. "खण्डखण्डेषु पाण्डित्यं, क्रयविक्रयमैथुनम् ।
भोजनं च पराधीनं, त्रयं पुंसां विडम्बना ॥ १॥"-अनु० तूष्णी स्थितः । प्रातरुत्थाय पश्चादुपाध्यायसमीपमाजगाम । तेनागमनकारणं पृष्टम् । ततो हरिः कण्टकमर्दकस्यार्थ प्रपच्छ । मा भूः पठितमूर्खः । यतः
"काव्यं करोतु परिजल्पतु संस्कृतं वा __ सर्वाः कलाः समधिगच्छतु वाच्यमानाः । लोकस्थितिं यदि न वेत्ति यथाऽनुरूपं
सर्वस्य मूर्खनिकरस्य च (स?) चक्रवर्ती ॥ १॥"-वसन्ततिलका इत्युक्त्वा अध्यापकेन तस्यार्थो गदित-उपानदिति । पुनः सम्भ्रान्त्या यामी दिशं चचाल । मार्गे मुक्तजैनवेष एकः सिद्धपुत्रो मिलितः । तेन सह गोष्ठिर्जाता । सिद्धपुत्रेण सौहार्दवशात् तस्मै परमेष्ठिमत्रोऽर्पितः। कथितं च सातिशय एषोऽस्ति । उच्चारणमात्रतः सर्वा भीतयो नाशं यान्ति । इयमेव महती गायत्री, इतरा तु ॐ भूर्भुवः सवितुर्वरेण्यमित्यादिरूपा प्रतिच्छायारूपा वर्तते । इत्युक्त्वा सिद्धपुत्रः स्वस्थानं शिश्राय । ततो हरिर्मार्ग गच्छन् सहसा व्याघ्रं ददर्श । ततो भीत: सन् परमेष्ठिमत्रं ससार । व्याघ्रस्तु तत्कालं पलायत, चमत्कारं प्राप । ततोऽग्रेऽध्वनि गच्छन् श्रान्तः सन् वटवृक्षच्छायायां निद्रां गतः । इतोऽजगरेण गृहीतो जाग्रत् 'नमो अरिहंताणं' इति जजल्प सः । तत्कालमेव नष्टो वाहस एनं मुक्त्वा । ततो हृष्टो हरिरग्रे गच्छन्नेकं तापसं जटाधारिणं भसावगुण्ठितदेहं रक्ताक्षमद्राक्षीत् । ततःप्रणामो विहितः । सोऽपि हरिमभाषिष्ट-मो वत्स! अत्र गिरिणदीसमीपगिरिगुहायां रसकूपिका वर्तते येन रसेन स्वर्णसिद्धिर्भवति । अत एहि । अत्र आवां रसं निष्कासयावः । त्वद्दारिद्रं हरामि । हरिणा चिन्तितम्-धूर्तोऽयम् । यतः
, दक्षिणाम्. २ इत्यादिपदेन 'भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्' इति ज्ञेयम् । ३ नमोऽर्हद्भ्यः । ४ अजगरः.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org