________________
श्रीभावप्रभसूरिकृतम्
एताः प्रविश्य सदयं हृदयं नराणां
किं नाम वामनयना न समाचरन्ति १ ॥ १ ॥ - वसन्त० द्रौपद्या वचनेन कौरवशतं निर्मूलमुन्मूलितं
सुग्रीवस्य वधाय मोहमतुलं (१) वाली हतस्तारया । सीतासक्तमनास्त्रिलोकविजयी प्राप्तो वधं रावणः
प्रायः स्त्रीवचनप्रपञ्च निरतः सर्वः क्षयं यास्यति ॥ २ ॥ " - शार्दूल ० ततोऽयं ज्येष्ठपुत्रं हरिं तथाविधं मनो दत्त्वा न पाठयति, वेल्लकं विमाता हरौ भोजनादि शुश्रूषां तथाविधां न करोति । यतो लौकिकाभाणकम् - ओरभानभा, भाथ धा (घा), लावा तो षा, नही तो उडीना ल.
सम्यक पाठयति ।
इति ॥
ततो हरिणा चिन्तितम् - मया यत्र न स्थेयम्, विदेशं गमिष्यामि । यतः - "विरक्तचित्तेषु रतिं न कुर्याद्
दग्धाऽपि शाखा न विलम्बनीया ।
Jain Education International
गन्तव्यमन्यत्र विचक्षणेन
पूर्णा ही सुन्दर सुन्दरेण ॥ १ ॥ - उपजातिः त्यजेदेकं कुलस्यार्थे, ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे, आत्मार्थे पृथिवीं त्यजेत् ॥ २ ॥" - अनु०
ततो हरिणा पिता अभाणि - विद्यार्थी विदेशं गच्छामि । जनकेन प्रोक्तम् अहं पाठयामि त्वाम् । तेनोक्तम्- विशेषतो विद्यां मठे पठिष्यामि । इत्युक्त्वा तुम्बकं गृहीत्वा हरिः शुभशकुनेन पूर्वदेशं चचाल । क्रमेण स ' वाराणसीं' प्राप्तः । तत्र महामहोपाध्यायः श्रुतशर्मा नाम विप्रो वसति व्याकरण- तर्क- च्छन्दः शास्त्रादीनां ज्ञाता । तस्य गृहगतो हरिः सम्यग् विनयं कृत्वाऽग्रे स्थितः । तेन संभाषितः - किमर्थमागतोऽसि ? कत्योऽसि । यथोक्तं तेन निवेदितम् - पठ नार्थमिति । ततः सोऽध्यापकः सुविनयसमुद्रं समीक्ष्य तमध्यापयामास । कियता कालेनाध्यापकस्य तदुपरि परमः स्नेहोऽजायत । स्वयं निष्पुत्रत्वात् पुत्रीयति तं शिष्यं सः । पाठकाग्रे स्वकीयं विमातुः पितुश्चाचरणापमानं प्रोक्तम् । तेनोक्तम्-तिष्ठात्रैव, किं तव मातृपितृभ्याम् ? । ततः स पठति शास्त्राणि, क्रमेण सकलशास्त्रपारिणो जज्ञे । ततो हरिर्मनसि दध्यौ - एकशो विमातुः पितुश्चाग्रे मदीयां विद्यासमृद्धिं दर्शयामि । ततः स्वमातरपितरयोर्मिलनगमनार्थं पाठको भाणि । ततोऽध्यापकेन प्रोचे-किमर्थं तत्र गमनं यत्र तव जनकस्य कुभार्या वर्तते । । यतः -
११
" चण्डी दुर्विनया स्वयं कलहिनी तृष्णातुरा तन्द्रिणी निद्रालुः प्रथमाशिनी कपटिनी हीवर्जिता तस्करी |
For Private & Personal Use Only
www.jainelibrary.org