Book Title: Jain Dharmvar Stotra
Author(s): Bhavprabhsuri, Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 93
________________ ७० श्रीजैनधर्मवरस्तोत्रम् अतो मुनिः प्राह-हे हलिन् ! निष्कलङ्कोऽयं ढेलडकदेवो जिनो वीतरागः सदा त्वया एकाग्रमनसा सेवनीयः जलादिपूजया, युगन्धर्यादिधान्यकणाः शुद्धा अग्रे मोच्याः । त्रिसन्ध्यं यो(?)करणं कर्तव्यम् । ततो मुनिवचसा तेन नित्यमेवं कर्तव्यमित्यभिग्रहो गृहीतः । मुनिस्त्वन्यत्र विनहार । अथो हली प्रभुसेवनमेवं कुर्वाण एकदा राजदेयभागदेयार्थ रुद्धः । एकविंशतिर्दिवसा जाताः । सेवां विना जलमपि तेन न गृहीतम् । ततो ग्रामाधीशेन मुक्तः। द्वाविंशतितमे दिवसे तृद्क्षुधातुरोऽपि श्रद्धाभक्तिवशतः प्रथमं प्रभुसेवनार्थ प्रभुसमीपमागतः । तस्मिन्नेवावसरेऽधिष्ठायिकयाऽम्बिकया तद्भक्तिशक्तिं विलोक्य जिनविम्बं नवीनघुसणविलेपनपुष्पभूषणालङ्कृतं कृतम् । ततः स कृषीवलस्तद् बिम्बं तथाविधं दृष्ट्वाऽनुभूतपूर्वमिति चिन्त्यमानो जातजातिस्मृतिः दृष्टभवत्रयः (जातः), तद्यथा-पूर्व मवन्त्यां' पुर्या दयालाभिधो धनी जैनः श्रावको नित्यं जिनपूजां करोति साधून प्रतिलाभयति । शुद्धाहारेण कालान्तरे निष्कषायगुरोः समीपे दीक्षां गृहीत्वा सिद्धान्तमधीत्य प्रान्ते चारित्रं विराध्य मृत्वा ज्योतिष्कसुरो भूत्वा च्युतोऽत्र कौटुम्बिको जातोऽहम् । अहो! कर्मणां गतिः। ततो जिनस्वरूपं ध्यायन क्षपकश्रेणिमारूढः केवलज्ञानं प्राप । सन्निहितदेवैः कृतकनककमलारूढो भव्येभ्यो देशनां ददौ । तत्रान्यत्र च बहून् भव्यजीवान् प्रतिबोध्य शिवं ययाविति द्रव्यस्तवाधिकारे सगड(शकड ?)कथानकं समाप्तम् । इत्यष्टादशवृत्तार्थः ॥ १८॥ सूत्रम् नित्यं प्रसन्नवदनां महितां सुजैनी द्रव्यैः शुभै रुचिल ! कल्पलतोपमानाम् । यः सेवते न मलिनो ह्यधनो भवेत् स किं वा विबोधमुपयाति न जीवलोकः ? ॥ १९ ॥ व्याख्या हे 'रुचिल!' रुचिं-धर्माभिलाष लाति-गृह्णाति इति हे धर्माभिलाषिन् ! यः प्राणी नित्यं सुजैनी-व्यङ्गादिदोषरहितां शुभजिनप्रतिमां द्रव्यैः-चन्दनादिभिः महितां-पूजितां सेवतेध्यानाश्रयं करोति । कथंभूतैः द्रव्यैः? 'शुभैः' निर्दूषणघुसृणपुष्पादिभिः । कथंभूतां सुजैनीम् ? प्रसनवदनां-हसन्मुखपङ्कजाम् । पुनः कथं० सुजैनी ? कल्पलतोपमानां-सेवकानां मनोवाञ्छितदाने कल्पवृक्षसमानाम् । हि इति निश्चितं स जीवलोकः-स संसारी प्राणी मलिनो न भवेत् , अधनो न भवेत् । वा-अथवा स जीवलोकः विवोधं किं न उपयाति ? अपि तु प्रतिबोधं प्रामोत्येव । अथ प्रतिलोमार्थमाह-यः जीवलोकः सुजैनी न सेवते स जीवलोको मलिनः-सपापो भवेत् . 'वाऽनिबोध' इत्यर्थान्तरे। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200